Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 65
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
प्र के॒तुना॑बृह॒ता भा॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति।दि॒वश्चि॒दन्ता॑दुप॒मामुदा॑नड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥
स्वर सहित पद पाठप्र । के॒तुना॑ । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्नि: । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भ: । रो॒र॒वी॒ति॒ । दि॒व: । चि॒त् । अन्ता॑त् । उ॒प॒ऽमाम् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒ष: । व॒व॒र्ध॒ ॥३.६५॥
स्वर रहित मन्त्र
प्र केतुनाबृहता भात्यग्निरा रोदसी वृषभो रोरवीति।दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥
स्वर रहित पद पाठप्र । केतुना । बृहता । भाति । अग्नि: । आ । रोदसी इति । वृषभ: । रोरवीति । दिव: । चित् । अन्तात् । उपऽमाम् । उत् । आनट् । अपाम् । उपऽस्थे । महिष: । ववर्ध ॥३.६५॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 65
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६५−(प्र) प्रकर्षेण (केतुना)प्रज्ञया-निघ० ३।९ (बृहता) महता (रोदसी) द्यावापृथिव्यौ (वृषभः) वर्षकः सूर्यतापः (रोरवीति) भृशं रौति। विद्युदादिना भृशं शब्दं करोति (दिवः) सूर्यलोकस्य (चित्)एव (अन्तात्) (उपमाम्) सामीप्यम् (उत) उत्तमतया (आनट्) अशूङ् व्याप्तौ लिटि, एश्त्वे, एषो लुक् छान्दसः, व्रश्चादिना षत्वम्। झलां जशोऽन्ते। पा० ८।२।३।९।इति डकारः। वावसाने। पा० ८।४।५६। डस्य टः। आनट्, व्याप्तिकर्मा-निघ० २।१८। आनशे।अश्नुते। व्याप्नोति (अपाम्) प्रजानाम् (उपस्थे) उपस्थाने। उत्सङ्गे (महिषः)महान्-निघ० ३।३। पूजनीयो राजा (ववर्ध) लडर्थे लिट्। ववृधे। वर्धते ॥
इस भाष्य को एडिट करें