Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 66
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    नाके॑सुप॒र्णमुप॒ यत्पत॑न्तं॒ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा। हिर॑ण्यपक्षं॒वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥

    स्वर सहित पद पाठ

    नाके॑ । सु॒ऽप॒र्णम् । उप॑ । यत् । पत॑न्तम् । हृ॒दा । वेन॑न्त: । अ॒भि॒ऽअच॑क्षत । त्वा॒ । हिर॑ण्यऽयक्षम् । वरु॑णस्य । दू॒तम । य॒मस्य॑ । योनौ॑ । श॒कु॒नम् । भु॒र॒ण्यम् ॥३.६६॥


    स्वर रहित मन्त्र

    नाकेसुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा। हिरण्यपक्षंवरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥

    स्वर रहित पद पाठ

    नाके । सुऽपर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्त: । अभिऽअचक्षत । त्वा । हिरण्यऽयक्षम् । वरुणस्य । दूतम । यमस्य । योनौ । शकुनम् । भुरण्यम् ॥३.६६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 66

    टिप्पणीः - ६६−(नाके) पिनाकादयश्च। उ० ४।१५। णीञ् प्रापणे-आकप्रत्ययः, टिलोपः। लोकानां नेतरि आकाशे (सुपर्णम्) शोभनपक्षोपेतं गरुडादिविहङ्गम् (यत्)यथा (उप पतन्तम्) उड्डीयमानम् (हृदा) हृदयेन (वेनन्तः) वेनतिः कान्तिकर्मा-निघ०२।६। कामयमानाः (अभ्यचक्षत) सर्वतः पश्यन्ति (त्वा) त्वां राजानम् (हिरण्यपक्षम्) पक्ष परिग्रहे-अच्। तेजसो ग्रहीतारम् (वरुणस्य) श्रेष्ठगुणस्य (दूतम्) दुतनिभ्यां दीर्घश्च। उ० ३।९०। दुगतौ-क्त। प्रापकम् (यमस्य) न्यायस्य (योनौ) गृहे (शकुनम्) शकेरुनोन्तोन्त्युनयः। उ० ३।४९। शक्लृ शक्तौ-उन प्रत्ययः।शक्तम्। समर्थम् (भुरण्युम्) यजिमनिशुन्धि० उ० ३।२०। भुरण धारणपोषणयोः-युच्।भर्तारम् ॥

    इस भाष्य को एडिट करें
    Top