Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 61
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    वि॒वस्वा॑न्नो॒अभ॑यं कृणोतु॒ यः सु॒त्रामा॑ जी॒रदा॑नुः सु॒दानुः॑। इ॒हेमे वी॒रा ब॒हवो॑भवन्तु॒ गोम॒दश्व॑व॒न्मय्य॑स्तु पु॒ष्टम् ॥

    स्वर सहित पद पाठ

    वि॒वस्वा॑न् । न॒: । अभय॑म् । कृ॒णो॒तु॒ । य: । सु॒ऽत्रामा॑ । जी॒रऽदा॑नु: । सु॒ऽदानु॑: । इ॒ह । इ॒मे । वी॒रा: । ब॒हव॑: । भ॒व॒न्तु॒ । गोऽम॑त् । अश्व॑ऽवत् । मयि॑ । अ॒स्तु॒ । पु॒ष्टम् ॥३.६१॥


    स्वर रहित मन्त्र

    विवस्वान्नोअभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः। इहेमे वीरा बहवोभवन्तु गोमदश्ववन्मय्यस्तु पुष्टम् ॥

    स्वर रहित पद पाठ

    विवस्वान् । न: । अभयम् । कृणोतु । य: । सुऽत्रामा । जीरऽदानु: । सुऽदानु: । इह । इमे । वीरा: । बहव: । भवन्तु । गोऽमत् । अश्वऽवत् । मयि । अस्तु । पुष्टम् ॥३.६१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 61

    टिप्पणीः - ६१−(विवस्वान्)प्रकाशमयः परमेश्वरः (नः) अस्मभ्यम् (अभयम्) भयराहित्यम् (कृणोतु) करोतु (यः)परमेश्वरः (सुत्रामा) सु+त्रैङ् पालने मनिन्। बहुरक्षकः (जीरदानुः) अ० ७।१८।२।जोरी च। उ० २।२३। जु गतौ-रक्, ईकारादेशः, जीराः क्षिप्रनाम-निघ० २।१५, ददातेर्नु।वेगदाता (सुदानुः) महोदारः (इह) अत्र संसारे (इमे) (वीराः) शूराः (बहवः)बहुसंख्याकाः (भवन्तु) (गोमत्) उत्तमगोभिर्युक्तम् (अश्ववत्) श्रेष्ठाश्वोपेतम् (मयि) (अस्तु) (पुष्टम्) पोषणम्। वर्धनम् ॥

    इस भाष्य को एडिट करें
    Top