Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 48
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये स॒त्यासो॑हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेण॑। आग्ने॑ याहिसुवि॒दत्रे॑भिर॒र्वाङ्परैः॒ पूर्वै॒रृषि॑भिर्घर्म॒सद्भिः॑ ॥
स्वर सहित पद पाठये । स॒त्यास॑: । ह॒वि॒:ऽअद॑: । ह॒वि॒:ऽपा: । इन्द्रे॑ण । दे॒वै: । स॒ऽरथ॑म् । तु॒रेण॑ । आ । अ॒ग्रे॒ । या॒हि॒ । सु॒ऽवि॒दत्रे॑भि: । अ॒र्वाङ् । परै॑: । पूर्वै॑: । ऋषि॑ऽभि: । घ॒र्म॒सत्ऽभि॑: ॥३.४८॥
स्वर रहित मन्त्र
ये सत्यासोहविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण। आग्ने याहिसुविदत्रेभिरर्वाङ्परैः पूर्वैरृषिभिर्घर्मसद्भिः ॥
स्वर रहित पद पाठये । सत्यास: । हवि:ऽअद: । हवि:ऽपा: । इन्द्रेण । देवै: । सऽरथम् । तुरेण । आ । अग्रे । याहि । सुऽविदत्रेभि: । अर्वाङ् । परै: । पूर्वै: । ऋषिऽभि: । घर्मसत्ऽभि: ॥३.४८॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 48
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४८−(सत्यासः) सत्याः। सत्यशीलाः (हविरदः) हविषां ग्राह्यान्नानांभक्षयितारः (हविष्पाः) हविषां दातव्यग्राह्यपदार्थानां रक्षकाः (इन्द्रेण)परमैश्वर्यवता पुरुषेण सह (देवैः) विजयिपुरुषैः सह (सरथम्) यथा तथा। समाने रथेवर्तमानाः (त्वरेण) त्वरमाणेन (अग्ने) हे विद्वन् (आयाहि) आगच्छ (सुविदत्रेभिः)बहुधनयुक्तैः (अर्वाङ्) अभिमुखः सन् (परैः) उत्कृष्टैः (पूर्वैः) पूर्वपुरुषैः।अन्यत् पूर्ववत्-म० ४७ ॥
इस भाष्य को एडिट करें