Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 60
    सूक्त - यम, मन्त्रोक्त देवता - त्र्यवसाना षट्पदा जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    शं॑ ते नीहा॒रोभ॑वतु॒ शं ते॑ प्रु॒ष्वाव॑ शीयताम्। शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ह्लादि॑कावति। म॑ण्डू॒क्यप्सु शं भु॑व इ॒मं स्वग्निं श॑मय ॥

    स्वर सहित पद पाठ

    शम् । ते॒ । नी॒हा॒र: । भ॒व॒तु॒ । शम् । ते॒ । प्रु॒ष्वा । अव॑ । शी॒य॒ता॒म् । शीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति । म॒ण्डू॒की । अ॒प्ऽसु । शम् । भु॒व॒: । इ॒मम् । सु । अ॒ग्निम् । श॒म॒य॒ ॥३.६०॥


    स्वर रहित मन्त्र

    शं ते नीहारोभवतु शं ते प्रुष्वाव शीयताम्। शीतिके शीतिकावति ह्लादिकेह्लादिकावति। मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥

    स्वर रहित पद पाठ

    शम् । ते । नीहार: । भवतु । शम् । ते । प्रुष्वा । अव । शीयताम् । शीतिके । शीतिकाऽवति । ह्लादिके । ह्लादिकाऽवति । मण्डूकी । अप्ऽसु । शम् । भुव: । इमम् । सु । अग्निम् । शमय ॥३.६०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 60

    टिप्पणीः - ६०−(शम्) सुखकरः (ते)तुभ्यम् (नीहारः) घनीभूतशिशिरम् (भवतु) (शम्) शान्तिप्रदः (ते) (प्रुष्वा)शीङ्क्रुशिरुहि०। उ० ४।११४। प्रुष स्नेहनसेवनपूरणेषु-क्वनिप्। वृष्टिपातः (अवशीयताम्) शीङ् स्वप्ने-भावे लोट्। अधो वर्तताम्। अधः पततु (शीतिके) स्वार्थेकन्, टाप्। उदीचामातः स्थाने यकपूर्वायाः। पा० ७।३।४६। अत इत्त्वम्। हेशीतलस्वभावे प्रजे (शीतिकावति) हे शीतलक्रियायुक्ते (ह्लादिके) ह्लादीसुखे-ण्वुल्। प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः। पा० ७।३।४४। अतइत्त्वम्। हे सुखकारिणि (ह्लादिकावति) हे सुखवतीक्रियायुक्ते (मण्डूकी) मण्डूक-स्त्री यथा (अप्सु) जलेषु (शम्) शान्ता (भुवः) लेटि रूपम्। भवेः (इमम्) (सु)सुष्ठु (अग्निम्) सन्तापम्। विघ्नम् (शमय) शान्तं कुरु ॥

    इस भाष्य को एडिट करें
    Top