Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 40
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    त्रीणि॑ प॒दानि॑रु॒पो अन्व॑रोह॒च्चतु॑ष्पदी॒मन्वे॑तद्व्र॒तेन॑। अ॒क्षरे॑ण॒ प्रति॑ मिमीतेअ॒र्कमृ॒तस्य॒ नाभा॑व॒भि सं पु॑नाति ॥

    स्वर सहित पद पाठ

    त्रीणि॑ । प॒दानि॑ । रु॒प: । अनु॑ । अ॒रो॒ह॒त् । चतु॑:ऽपदीम् । अनु॑ । ए॒त॒त् । व्र॒तेन॑ । अ॒क्षरे॑ण । प्रति॑ । मि॒मी॒ते॒ । अ॒र्कम् । ऋ॒तस्य॑ । नाभौ॑ । अ॒भि । सम् । पु॒ना॒ति॒ ॥३.४०॥


    स्वर रहित मन्त्र

    त्रीणि पदानिरुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन। अक्षरेण प्रति मिमीतेअर्कमृतस्य नाभावभि सं पुनाति ॥

    स्वर रहित पद पाठ

    त्रीणि । पदानि । रुप: । अनु । अरोहत् । चतु:ऽपदीम् । अनु । एतत् । व्रतेन । अक्षरेण । प्रति । मिमीते । अर्कम् । ऋतस्य । नाभौ । अभि । सम् । पुनाति ॥३.४०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 40

    टिप्पणीः - ४०−(त्रीणि) त्रिसंख्याकानि (पदानि) प्राप्तव्यानि भूतभविष्यद्वर्तमानवस्तूनि (रुपः) च्युवः किच्च। उ० ३।२४। रुङ् गतिरेषणयोः, रु शब्दे वा-पप्रत्ययः, कित्।गतिमान्। स्तोतव्यः पुरुषः (अनु) अनुसृत्य (अरोहत्) प्रादुरभवत् (चतुष्पदीम्)चतुर्वर्गे धर्मार्थकाममोक्षेषु पुरुषार्थेषु पदमधिकारो यस्यास्तां वेदवाणीम् (अनु) अनुसृत्य (ऐतत्) इण् गतौ-लङ्, तकारश्छान्दसः। ऐत्। प्राप्नोत् (व्रतेन)ब्रह्मचर्यादितपश्चरणेन (अक्षरेण) अ० ९।१०।२। अशू व्याप्तौ-सर। यद्वा नञ्+क्षरसंचलने-अच्। व्यापकेन विनाशरहितेन, इति प्रणवेन सह (प्रति) प्रत्यक्षम् (मिमीते) माङ् माने। करोति (अर्कम्) कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। अर्चपूजायाम्-क, यद्वा, अर्च-घञ्, कुत्वम्। अर्को मन्त्रो भवति यदनेनार्चन्ति-निरु०५।४। पूजनीयं विचारम् (ऋतस्य) सत्यधर्मस्य (नाभौ) मध्यस्थाने (अभि) सर्वतः (सम्)सम्यक् (पुनाति) शोधयति सर्वान् ॥

    इस भाष्य को एडिट करें
    Top