Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 2
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    उदी॑र्ष्वनार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑। ह॑स्तग्रा॒भस्य॑ दधि॒षोस्तवे॒दंपत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥

    स्वर सहित पद पाठ

    उत् । ई॒र्ष्व॒ । ना॒रि॒ । अ॒भि । जी॒व॒ऽलो॒कम् । ग॒तऽअ॑सुम् । ए॒तम् । उप॑ । शे॒षे॒ । आ । इ॒हि॒ । ह॒स्त॒ऽग्रा॒भस्य॑ । द॒धि॒षो: । तव॑ । इ॒दम् । पत्यु॑: । ज॒नि॒ऽत्वम् । अ॒भि । सम् । ब॒भू॒थ॒ ॥३.२॥


    स्वर रहित मन्त्र

    उदीर्ष्वनार्यभि जीवलोकं गतासुमेतमुप शेष एहि। हस्तग्राभस्य दधिषोस्तवेदंपत्युर्जनित्वमभि सं बभूथ ॥

    स्वर रहित पद पाठ

    उत् । ईर्ष्व । नारि । अभि । जीवऽलोकम् । गतऽअसुम् । एतम् । उप । शेषे । आ । इहि । हस्तऽग्राभस्य । दधिषो: । तव । इदम् । पत्यु: । जनिऽत्वम् । अभि । सम् । बभूथ ॥३.२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 2

    टिप्पणीः - २−(उत्) उत्थाय (ईर्ष्व) गच्छ (नारि) म० १। हे स्त्रि (अभि) अभिलक्ष्य (जीवलोकम्) जीवितानां समाजम् (गतासुम्)विगतप्राणम्। मृतं रोगिणं वा (एतम्) दृश्यमानम् (उप) पूजायाम्। उपगच्छन्ती।स्तुवाना (शेषे) शीङ् स्वप्ने। भूमौ वर्तसे (एहि) आगच्छ (हस्तग्राभस्य) ग्रहउपादाने-कर्मण्यण्, हस्य भः। विवाहे गृहीतहस्तस्य (दधिषोः) दधातेर्द्वित्वमित्वंषुक् च। उ० ३।९७। इति दर्शनात्। कुर्भ्रश्च। उ० १।२२। दधातेः कु, इत्वंषुगागमश्च। दधिषुरेव दिधिषुः। नियुक्तायां स्त्रियां गर्भस्थापकात् पुरुषात् (तव) स्वकीयायाः (इदम्) इदानीम् (पत्युः) स्वामिनः (जनित्वम्) सन्तानम् (अभि)सर्वतः (सम्) सम्यक्। यथाविधि (बभूथ) भू सत्तायां प्राप्तौ च। छन्दसिलुङ्लङ्लिटः। पा० ३।४।६। लोडर्थे लिट्। बभूविथ। प्राप्नुहि ॥

    इस भाष्य को एडिट करें
    Top