Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 19
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यद्वो॑ मु॒द्रंपि॑तरः सो॒म्यं च॒ तेनो॑ सचध्वं॒ स्वय॑शसो॒ हि भू॒त। ते अ॑र्वाणः कवय॒ आ शृ॑णोतसुवि॒दत्रा॑ वि॒दथे॑ हू॒यमा॑नाः ॥
स्वर सहित पद पाठयत् । व॒: । मु॒द्रम् । पि॒त॒र॒: । सो॒म्यम् । च॒ । ते॒नो॒ इति॑ । स॒च॒ध्व॒म् । स्वऽय॑शस: । हि । भू॒त । ते । अ॒र्वा॒ण॒: । क॒व॒य॒: । आ । शृ॒णो॒त॒ । सु॒ऽवि॒द॒त्रा: । वि॒दथे॑ । हू॒यमा॑ना: ॥३.१९॥
स्वर रहित मन्त्र
यद्वो मुद्रंपितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत। ते अर्वाणः कवय आ शृणोतसुविदत्रा विदथे हूयमानाः ॥
स्वर रहित पद पाठयत् । व: । मुद्रम् । पितर: । सोम्यम् । च । तेनो इति । सचध्वम् । स्वऽयशस: । हि । भूत । ते । अर्वाण: । कवय: । आ । शृणोत । सुऽविदत्रा: । विदथे । हूयमाना: ॥३.१९॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(यत्) यत्किञ्चित् कर्म (वः) युष्माकम् (मुद्रम्) स्फायितञ्चिवञ्चि०। उ० २।१३। मुदहर्षे-रक्। हर्षकरम् (पितरः) हे रक्षकाः पित्रादयः (सोम्यम्) प्रियदर्शनम्।उत्तमगुणविशिष्टम् (च) (तेनो) तेन-उ। तेनैव कर्मणा (सचध्वम्) षच समवाये सेचने च।संगच्छध्वम्। सिञ्चत (स्वयशसः) आत्मयशस्विनः (हि) अवश्यम् (भूत) भवत (ते) तेयूयम् (अर्वाणः) ऋ गतौ-वनिप्। विज्ञानिनः। शीघ्रगामिनः (कवयः) मेधाविनः (आ)आगत्य (शृणोत) शृणुत (सुविदत्राः) बहुधनाः (विदथे) ज्ञानसमाजे (हूयमानाः) ॥
इस भाष्य को एडिट करें