Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 50
सूक्त - भूमि
देवता - प्रस्तार पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उच्छ्व॑ञ्चस्वपृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपसर्प॒णा। मा॒ता पु॒त्रं यथा॑सि॒चाभ्येनं भूम ऊर्णुहि ॥
स्वर सहित पद पाठउत् । श्व॒ञ्च॒स्व॒ । पृ॒थि॒वि॒ । मा । नि । वा॒ध॒था॒: । सु॒ऽउ॒पा॒य॒ना । अ॒स्मै॒ । भ॒व॒ । सु॒ऽउ॒प॒स॒र्प॒णा । मा॒ता । पु॒त्रम् । यथा॑ । सि॒चा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥३.५०॥
स्वर रहित मन्त्र
उच्छ्वञ्चस्वपृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा। माता पुत्रं यथासिचाभ्येनं भूम ऊर्णुहि ॥
स्वर रहित पद पाठउत् । श्वञ्चस्व । पृथिवि । मा । नि । वाधथा: । सुऽउपायना । अस्मै । भव । सुऽउपसर्पणा । माता । पुत्रम् । यथा । सिचा । अभि । एनम् । भूमे । ऊर्णुहि ॥३.५०॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 50
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५०−(उच्छ्वञ्चस्व) श्वचि गतौ-लोट्। उदेहि।पुलकिता भव (पृथिवि) (मा नि बाधथाः) संपीडिता मा भूः (सूपायना) सु+उप+अयना।सुखेन प्राप्तव्या (अस्मै) (भव) (सूपसर्पणा) सु+उप+सर्पणा। सुखेन गन्तव्या (माता) जननी (पुत्रम्) सन्तानम् (यथा) (सिचा) चेलाञ्चलेन (अभि) सर्वतः (एनम्)जिज्ञासुम् (भूमे) हे पृथिवि (उर्णुहि) आच्छादय स्वरत्नैः ॥
इस भाष्य को एडिट करें