Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 7
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒दं त॒एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व। सं॒वेश॑ने त॒न्वा॒चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ॥
स्वर सहित पद पाठइ॒दम् । ते॒ ।एक॑म् । प॒र: । ऊं॒ इति॑ । ते॒ । एक॑म् । तृ॒तीये॑न । ज्योति॑षा । सम् । वि॒श॒स्व॒ । स॒म्ऽवेश॑ने । त॒न्वा॑ । चारु॑: । ए॒धि॒ । प्रि॒य: । दे॒वाना॑म् । प॒र॒मे । स॒धऽस्थे॑ ।३.७॥
स्वर रहित मन्त्र
इदं तएकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व। संवेशने तन्वाचारुरेधि प्रियो देवानां परमे सधस्थे ॥
स्वर रहित पद पाठइदम् । ते ।एकम् । पर: । ऊं इति । ते । एकम् । तृतीयेन । ज्योतिषा । सम् । विशस्व । सम्ऽवेशने । तन्वा । चारु: । एधि । प्रिय: । देवानाम् । परमे । सधऽस्थे ।३.७॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(इदम्) दृश्यमानं कार्यरूपं जगत् (ते)तुभ्यम् (एकम्) ज्योतिर्वत् (परः) परस्तात्। अग्रे (उ) चार्थे (ते) तुभ्यम् (एकम्) कारणरूपं सूक्ष्मं जगत्, ज्योतिः समानम् (तृतीयेन) कार्यकारणरूपसंसारात्परेण (ज्योतिषा) प्रकाशस्वरूपेण परब्रह्मणा (सम्) संगत्य (विशस्व) प्रवेशं कुरु (संवेशने) सम्यक् प्रवेशविधाने (तन्वा) तन उपकारे, तनु विस्तारे-ऊ। उपकारक्रियया (चारुः) शोभनः (एधि) अस भुवि-लोट्। भव (प्रियः) प्रीतिकरः (देवानाम्) विदुषाम् (परमे) उत्कृष्टे (सधस्थे) समाजे ॥
इस भाष्य को एडिट करें