Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 26
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् जगती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
धा॒ता मा॒निरृ॑त्या॒ दक्षि॑णाया दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑इवो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
स्वर सहित पद पाठधा॒ता । मा॒ । नि:ऽऋ॑त्या: । दक्षि॑णाया: । दि॒श: । पा॒तु॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.२६॥
स्वर रहित मन्त्र
धाता मानिरृत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिइवोपरि।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥
स्वर रहित पद पाठधाता । मा । नि:ऽऋत्या: । दक्षिणाया: । दिश: । पातु । बाहुऽच्युता । पृथिवी । द्याम्ऽइव । उपरि । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥३.२६॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(धाता) सर्वधारकः परमात्मा (निर्ऋत्याः) कृच्छ्रापत्तेः सकाशात् (दक्षिणायाः) दक्षिणस्याः। दक्षिणहस्तस्थायाः (दिशः) दिक्सम्बन्धिन्याः। अन्यत्पूर्ववत्-म० २५ ॥
इस भाष्य को एडिट करें