Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 69
सूक्त - यम, मन्त्रोक्त
देवता - उपरिष्टात् बृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यास्ते॑ धा॒नाअ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः। तास्ते॑ सन्तु वि॒भ्वीःप्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ॥
स्वर सहित पद पाठया: । ते॒ । धा॒ना: । अ॒नु॒ऽकि॒रामि॑ । ति॒लऽमि॑श्रा: । स्व॒धाऽव॑ती: । ता: । ते॒ । स॒न्तु॒ । वि॒ऽभ्वी: । प्र॒ऽभ्वी: । ता: । ते॒ । य॒म: । राजा॑ । अनु॑ । म॒न्य॒ता॒म् ॥३.६९॥
स्वर रहित मन्त्र
यास्ते धानाअनुकिरामि तिलमिश्राः स्वधावतीः। तास्ते सन्तु विभ्वीःप्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥
स्वर रहित पद पाठया: । ते । धाना: । अनुऽकिरामि । तिलऽमिश्रा: । स्वधाऽवती: । ता: । ते । सन्तु । विऽभ्वी: । प्रऽभ्वी: । ता: । ते । यम: । राजा । अनु । मन्यताम् ॥३.६९॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 69
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६९−(याः) (ते) तुभ्यम् (धानाः) धापॄवस्यज्यतिभ्यो नः। उ०३।६। डुधाञ् धारणपोषणदानेषु-न प्रत्ययः, टाप्। पोषणक्रियाः (अनुकिरामि) कॄविक्षेपे। आनुकूल्येन विस्तारयामि (तिलमिश्राः) तिल गतौ स्नेहने च-क प्रत्ययः।तिलेन गत्या प्रयत्नेन मिश्रिताः (स्वधावतीः) स्वधारणशक्तिमतीः (ताः)पोषणक्रियाः (ते) तुभ्यम् (सन्तु) (विभ्वीः) विभ्व्यः। सर्वव्यापिन्यः (प्रभ्वीः) प्रभ्व्यः। प्रभुत्वोपेताः (ताः) (ते) तुभ्यम् (यमः) संयमी पुरुषः (राजा) शासकः। जीवात्मा (अनु) अनुकूलम् (मन्यताम्) जानातु ॥
इस भाष्य को एडिट करें