Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 55
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यत्ते॑ कृ॒ष्णःश॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः। अ॒ग्निष्टद्वि॒श्वाद॑ग॒दंकृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । कृ॒ष्ण: । श॒कु॒न: । आ॒ऽतु॒तोद॑ । पि॒पी॒ल: । स॒र्प: । उ॒त । वा॒ । श्वाप॑द: । अ॒ग्नि: । तत् । वि॒श्व॒ऽअत् । अ॒ग॒दम् । कृ॒णो॒तु॒ । सोम॑: । च॒ । य । ब्रा॒ह्म॒णान् । आ॒ऽवि॒वेश॑ ॥३.५५॥


    स्वर रहित मन्त्र

    यत्ते कृष्णःशकुन आतुतोद पिपीलः सर्प उत वा श्वापदः। अग्निष्टद्विश्वादगदंकृणोतु सोमश्च यो ब्राह्मणाँ आविवेश ॥

    स्वर रहित पद पाठ

    यत् । ते । कृष्ण: । शकुन: । आऽतुतोद । पिपील: । सर्प: । उत । वा । श्वापद: । अग्नि: । तत् । विश्वऽअत् । अगदम् । कृणोतु । सोम: । च । य । ब्राह्मणान् । आऽविवेश ॥३.५५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 55

    टिप्पणीः - ५५−(यत्) अङ्गम् (ते) तव (कृष्णः) कृष्णवर्णः (शकुनः) पक्षी काकादिः (आतुतोद)तुद व्यथने। सर्वतो व्यथितं व्याकुलं कृतवान् (पिपीलः) अपि+पील रोधने-अच्।विषदंष्ट्रः पिपीलकादिः (सर्पः) भुजङ्गः (उत वा) अथवा (श्वापदः) शुनः पादानीवपादानि यस्य सः। व्याघ्रशृगालादिहिंस्रपशुः (अग्निः) भौतिकोऽग्निः (तत्)व्यथितमङ्गम् (विश्वात्) सर्वरोगभक्षकः (अगदम्) नीरोगम् (कृणोतु) करोतु (सोमः)ऐश्वर्यम्। प्रभावः (यः) (ब्राह्मणान्) विदुषः पुरुषान् (आविवेश) सम्यक्प्रविष्टवान् ॥

    इस भाष्य को एडिट करें
    Top