Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 13
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यो म॒मार॑प्रथ॒मो मर्त्या॑नां॒ यः प्रे॒याय॑ प्रथ॒मो लो॒कमे॒तम्। वै॑वस्व॒तं सं॒गम॑नं॒जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ॥

    स्वर सहित पद पाठ

    य:। म॒मार॑ । प्र॒थ॒म: । मर्त्या॑नाम् । य:। प्र॒ऽई॒याय॑ । प्र॒थ॒म: । लो॒कम् । ए॒तम् । वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । स॒प॒र्य॒त॒ ॥३.१३॥


    स्वर रहित मन्त्र

    यो ममारप्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम्। वैवस्वतं संगमनंजनानां यमं राजानं हविषा सपर्यत ॥

    स्वर रहित पद पाठ

    य:। ममार । प्रथम: । मर्त्यानाम् । य:। प्रऽईयाय । प्रथम: । लोकम् । एतम् । वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । सपर्यत ॥३.१३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 13

    टिप्पणीः - १३−(यः) मनुष्यः (ममार)मरणं प्राप्तवान्। आत्मानं समर्पितवान् (प्रथमः) मुख्यः सन् (मर्त्यानाम्)मनुष्याणां मध्ये (यः) (प्रेयाय) अग्रे गतवान्। प्राप्तवान् (प्रथमः) मुख्यः (लोकम्) संसारम् (एतम्) (वैवस्वतम्) विवस्वन्तो मनुष्यनाम-निघ० २।३। तस्मैहितम्। पा० ५।१।५। इत्यण्। विवस्वद्भ्यो मनुष्येभ्यो हितम् (संगमनम्) संगमयितारम् (जनानाम्) मनुष्याणाम् (यमम्) न्यायकारिणं मनुष्यम् (राजानम्) शासकम् (हविषा)भक्तिदानेन (सपर्यत) पूजयत ॥

    इस भाष्य को एडिट करें
    Top