Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 70
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
पुन॑र्देहिवनस्पते॒ य ए॒ष निहि॑त॒स्त्वयि॑। यथा॑ य॒मस्य॒ साद॑न॒ आसा॑तै वि॒दथा॒ वद॑न्॥
स्वर सहित पद पाठपुन॑: । दे॒हि॒ । व॒न॒स्प॒ते॒ । य: । ए॒ष: । निऽहि॑त: । त्वयि॑ । यथा॑ । य॒मस्य॑ । सद॑ने । आसा॑तै । वि॒दथा॑ । वद॑न् ॥३.७०॥
स्वर रहित मन्त्र
पुनर्देहिवनस्पते य एष निहितस्त्वयि। यथा यमस्य सादन आसातै विदथा वदन्॥
स्वर रहित पद पाठपुन: । देहि । वनस्पते । य: । एष: । निऽहित: । त्वयि । यथा । यमस्य । सदने । आसातै । विदथा । वदन् ॥३.७०॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 70
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७०−(पुनः) अवधारणे (देहि) प्रयच्छ श्रेष्ठगुणम् (वनस्पते) वनसेवने-अच्। हे वनानां सेवकानां पालक परमेश्वर (यः) श्रेष्ठगुणः (एषः) (निहितः)दृढं, धृतः (त्वयि) (यथा) येन प्रकारेण (यमस्य) न्यायस्य (सदने) गृहे (आसातै)लेटि रूपम्। आसीत्। उपविशेत् (विदथा) ज्ञानानि (वदन्) कथयन्। उपदिशन् ॥
इस भाष्य को एडिट करें