Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 23
    सूक्त - यम, मन्त्रोक्त देवता - सतः पङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आ यू॒थेव॑क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ जनि॒मान्त्यु॒ग्रः।मर्ता॑सश्चिदु॒र्वशीर॑कृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥

    स्वर सहित पद पाठ

    आ । यू॒थाऽइ॑व । क्षु॒ऽमति॑ । प॒श्व: । अ॒ख्य॒त् । दे॒वाना॑म् । जनि॑म । अन्ति॑ । उ॒ग्र: । मर्ता॑स: । चि॒त् । उ॒र्वशी॑: । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्य: । उप॑रस्य । आ॒यो: ॥३.२३॥


    स्वर रहित मन्त्र

    आ यूथेवक्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः।मर्तासश्चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥

    स्वर रहित पद पाठ

    आ । यूथाऽइव । क्षुऽमति । पश्व: । अख्यत् । देवानाम् । जनिम । अन्ति । उग्र: । मर्तास: । चित् । उर्वशी: । अकृप्रन् । वृधे । चित् । अर्य: । उपरस्य । आयो: ॥३.२३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 23

    टिप्पणीः - २३−(आ) समन्तात् (यूथा) यूथानि। समूहान् (क्षुमति) क्षु, अन्नम्-निघ० २।७।अन्नवति। तृणयुक्ते स्थाने (पश्वः) बहुवचनस्यैकवचनम्। पशोः। पशूनाम् (अख्यत्)चक्षिङ् दर्शने। अदर्शत् (देवानाम्) विदुषाम् (जनिम) जन्म। जीवनम् (अन्ति)अन्तिकम्। समीपे (उग्रः) तेजस्वी मनुष्यः, (मर्तासः) मनुष्याः (चित्) अपि (उर्वशीः) उरु+अशूङ् व्याप्तौ-क, गौरादित्वाद् ङीष्। उर्वशी पदनाम-निघ० ४।२। तथा५।५। बहुव्यापिकाः क्रियाः (अकृप्रन्) कृपू सामर्थ्ये कल्पने च-लुङि च्लेः अङ्आदेशः। बहुलं छन्दसि। पा० ७।१।८। इति रुडागमः। कल्पनया समर्थितवन्तः। विचारितवन्तः (वृधे) वर्धनाय (चित्) यथा (उपरस्य) उप+रमु क्रीडायाम्-ड। समीपस्थस्य (अर्यः)अर्यः स्वामिवैश्ययोः। पा० ३।१।१०३। ऋ गतौ-यत्। वैश्यः (आयोः) छन्दसीणः। उ० १।२।इण् गतौ-उण्। गतस्य। लब्धस्य। आयस्य ॥

    इस भाष्य को एडिट करें
    Top