Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 64
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् पथ्यापङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    आ रो॑हत॒दिव॑मुत्त॒मामृष॑यो॒ मा बि॑भीतन। सोम॑पाः॒ सोम॑पायिन इ॒दं वः॑ क्रियतेह॒विरग॑न्म॒ ज्योति॑रुत्त॒मम् ॥

    स्वर सहित पद पाठ

    आ । रो॒ह॒त॒ । दिव॑म् । उ॒त्ऽत॒माम् । ऋष॑य: । मा । बि॒भी॒त॒न॒ । सोम॑ऽपा: । सोम॑ऽपायिन: । इ॒दम् । व॒: । क्रि॒य॒ते॒ । ह॒वि: । अग॑न्म । ज्योति॑: । उ॒त्ऽत॒मम् ॥३.६४॥


    स्वर रहित मन्त्र

    आ रोहतदिवमुत्तमामृषयो मा बिभीतन। सोमपाः सोमपायिन इदं वः क्रियतेहविरगन्म ज्योतिरुत्तमम् ॥

    स्वर रहित पद पाठ

    आ । रोहत । दिवम् । उत्ऽतमाम् । ऋषय: । मा । बिभीतन । सोमऽपा: । सोमऽपायिन: । इदम् । व: । क्रियते । हवि: । अगन्म । ज्योति: । उत्ऽतमम् ॥३.६४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 64

    टिप्पणीः - ६४−(आ रोहत) आरूढाभवत (दिवम्) दिवु गतौ-डिवि। गतिम्। विद्याम् (उत्तमाम्) उत्कृष्टाम् (ऋषयः)सन्मार्गदर्शकाः (मा बिभीतन) बिभेतेर्लोटि तनादेशः। मा बिभीत। भयं मा प्राप्नुत (सोमपाः) शान्तिरसस्य पानशीलाः (सोमपायिनः) शान्तिरसस्य पानकारयितारः (इदम्) (वः) युष्मभ्यम् (क्रियते) विधीयते (हविः) दातव्यग्राह्यकर्म (अगन्म) लिङर्थेलुङ्। वयं प्राप्नुयाम (ज्योतिः) प्रकाशस्वरूपं परमात्मानम् (उत्तमम्) श्रेष्ठम्॥

    इस भाष्य को एडिट करें
    Top