Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 15
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    कण्वः॑क॒क्षीवा॑न्पुरुमी॒ढो अ॒गस्त्यः॑ श्या॒वाश्वः॒ सोभ॑र्यर्च॒नानाः॑।वि॒श्वामि॑त्रो॒ऽयं ज॒मद॑ग्नि॒रत्रि॒रव॑न्तु नः क॒श्यपो॑ वा॒मदे॑वः ॥

    स्वर सहित पद पाठ

    कण्व॑: । क॒क्षीवा॑न् । पु॒रु॒ऽमी॒ढ: । अ॒गस्त्य॑: । श्या॒वऽअ॑श्व: । सोभ॑री । अ॒र्च॒नाना॑:। वि॒श्वामि॑त्र: । अ॒यम् । ज॒मत्ऽअ॑ग्नि: । अ॑त्रि: । अव॑न्तु । न॒: । क॒श्यप॑:। वा॒मऽदे॑व: ॥३.१५॥


    स्वर रहित मन्त्र

    कण्वःकक्षीवान्पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः।विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥

    स्वर रहित पद पाठ

    कण्व: । कक्षीवान् । पुरुऽमीढ: । अगस्त्य: । श्यावऽअश्व: । सोभरी । अर्चनाना:। विश्वामित्र: । अयम् । जमत्ऽअग्नि: । अत्रि: । अवन्तु । न: । कश्यप:। वामऽदेव: ॥३.१५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 15

    टिप्पणीः - १५−(कण्वः) अ० ६।५२।३। मेधावी (कक्षीवान्) अ० ४।२९।५। शासनशीलः (पुरुमीढः) अ० ४।२९।४। बहुधनः (अगस्त्यः) अ०४।७।१। आतोऽनुपसर्गे कः। पा० ३।२।३। अग+स्त्यै ष्ट्यै शब्दसंघातयोः-क प्रत्ययः।अगस्य पापस्य संहन्ता नाशकः (श्यावाश्वः) अ० ४।२९।४। श्यैङ् गतौ-व+अशूव्याप्तौ-क्वन्। श्यावे ज्ञाने अश्वो व्याप्तिर्यस्य सः (सोभरी) षुप्रसवैश्वर्ययोः-विच्+भर-इनि। सोः ऐश्वर्यस्य भरो भरणं धारणं यस्य सः (अर्चनानाः) अर्चन+अन प्राणने-असुन्। अर्चनमर्चनीयम् अनो जीवनं यस्य सः (विश्वामित्रः) सर्वेषां मित्रम् (अयम्) (जमदग्निः) अ० ४।२९।३। जमन्तःप्रज्वलन्तोऽग्नयो यज्ञे शिल्पसिद्धौ वा यस्य सः (अत्रिः) अ० १३।२।४। अतसातत्यगमने-त्रिप्। सदा प्रापणीयो विज्ञानवान् (अवन्तु) रक्षन्तु (नः) अस्मान् (कश्यपः) अ० २।३३।७। पश्यकः सूक्ष्मदर्शी (वामदेवः) वामः प्रशस्यो देवोव्यवहारकुशलः ॥

    इस भाष्य को एडिट करें
    Top