Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 22
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
सु॒कर्मा॑णःसु॒रुचो॑ देव॒यन्तो॒ अयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः। शु॒चन्तो॑ अ॒ग्निंवा॑वृ॒धन्त॒ इन्द्र॑मु॒र्वीं गव्यां॑ परि॒षदं॑ नो अक्रन् ॥
स्वर सहित पद पाठसु॒ऽकर्मा॑ण: । सु॒ऽरुच॑: । दे॒व॒ऽयन्त॑: । अय॑: । न । दे॒वा: । जनि॑म । धम॑न्त: । शु॒चन्त॑: । अ॒ग्निम् । व॒वृ॒धन्त॑: । इन्द्र॑म् । उ॒र्वीम् । गव्या॑म् । प॒रि॒ऽसद॑म् । न॒:। अ॒क्र॒न् ॥३.२२॥
स्वर रहित मन्त्र
सुकर्माणःसुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः। शुचन्तो अग्निंवावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥
स्वर रहित पद पाठसुऽकर्माण: । सुऽरुच: । देवऽयन्त: । अय: । न । देवा: । जनिम । धमन्त: । शुचन्त: । अग्निम् । ववृधन्त: । इन्द्रम् । उर्वीम् । गव्याम् । परिऽसदम् । न:। अक्रन् ॥३.२२॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(सुकर्माणः) पुण्यकर्मकर्तारः (सुरुचः) बहुप्रीतयः (देवयन्तः)देवान् शुभगुणान् कामयमानाः (अयः) अयो हिरण्यनाम-निघ० १।२। सुवर्णम् (न) यथा (देवाः) विद्वांसः (जनिम) जन्म। जीवनम् (धमन्तः) ध्मा शब्दाग्निसंयोगयोः-शतृ।धमनेन शोधयन्तः। तपसा निर्मलीकृतवन्तः (शुचन्तः) दीपयन्तः (अग्निम्) तेजः।शारीरिकात्मिकबलमित्यर्थः (वावृधन्तः) वर्धयन्तः (इन्द्रम्) ऐश्वर्यम् (उर्वीम्)विस्तृताम् (गव्याम्) वाङ्मयाम्। विद्यायुक्ताम् (परिषदम्) सभाम् (नः) अस्मभ्यम् (अक्रन्) करोतेर्लुङ्। मन्त्रे घसह्वरणशवृ०। पा० २।४।८०। इति च्लेर्लुक्।अकार्षुः ॥
इस भाष्य को एडिट करें