Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 47
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    येता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः। आग्ने॑ याहिस॒हस्रं॑ देवव॒न्दैः स॒त्यैः क॒विभि॒रृषि॑भिर्घर्म॒सद्भिः॑ ॥

    स्वर सहित पद पाठ

    ये । त॒तृ॒षु: । दे॒व॒ऽत्रा । जेह॑माना: । हो॒त्रा॒ऽविद॑: । स्तोम॑ऽतष्टास: । अ॒कै: । आ । अ॒ग्ने॒ । या॒हि॒ । स॒हस्र॑म् । दे॒व॒ऽव॒न्दै: । स॒त्यै: । क॒विऽभि॑: । ऋषि॑ऽभि: । घ॒र्म॒सत्ऽभे॑: ॥३.४७॥


    स्वर रहित मन्त्र

    येतातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः। आग्ने याहिसहस्रं देववन्दैः सत्यैः कविभिरृषिभिर्घर्मसद्भिः ॥

    स्वर रहित पद पाठ

    ये । ततृषु: । देवऽत्रा । जेहमाना: । होत्राऽविद: । स्तोमऽतष्टास: । अकै: । आ । अग्ने । याहि । सहस्रम् । देवऽवन्दै: । सत्यै: । कविऽभि: । ऋषिऽभि: । घर्मसत्ऽभे: ॥३.४७॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 47

    टिप्पणीः - ४७−(ये) विद्वांसः (ततृषुः) ञितृषापिपासायाम्-लिट्। तृष्यन्ति स्म। उत्कण्ठितवन्तः (देवत्रा) देवमनुष्यपुरुष०। पा०५।४।५६। इति द्वितीयार्थे त्रा। देवान्। दिव्यगुणान् (जेहमानाः) जेहृप्रयत्ने-शानच्। प्रयतमानाः। व्याप्रियमाणाः (होत्राविदः) होत्रा वाङ्नाम-निघ०१।११। वेदवाग्ज्ञातारः (स्तोमतष्टासः) तक्षू तनूकरणे-क्त, असुगागमः। स्तोमैःस्तुतिकर्मभिस्तनूकृतः (अर्कैः) म० ४०। पूजनीयविचारैः (अग्ने) हे विद्वन् (आयाहि) आगच्छ (सहस्रम्) सहस्रप्रकारेण (देववन्दैः) विद्वद्भिर्वन्दना नमस्कारोयेषां तैः (सत्यैः) सत्यशीलैः (कविभिः) मेधाविभिः (ऋषिभिः) वेदार्थदर्शकैः (घर्मसद्भिः) घर्म यज्ञनाम-निघ० ३।१७। यज्ञे सदनशीलैः ॥

    इस भाष्य को एडिट करें
    Top