Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 67
सूक्त - यम, मन्त्रोक्त
देवता - पथ्या बृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इन्द्र॒ क्रतुं॑न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑। शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वाज्योति॑रशीमहि ॥
स्वर सहित पद पाठइन्द्र॑ । क्रतु॑म् । न॒:। आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्य॑: । यथा॑ । शिक्ष॑ । न॒: । अ॒स्मिन् । पु॒रु॒ऽहू॒त॒ । याम॑नि । जी॒वा: । ज्योति॑: । अ॒शी॒म॒हि॒ ॥३.६७॥
स्वर रहित मन्त्र
इन्द्र क्रतुंन आ भर पिता पुत्रेभ्यो यथा। शिक्षा णो अस्मिन्पुरुहूत यामनि जीवाज्योतिरशीमहि ॥
स्वर रहित पद पाठइन्द्र । क्रतुम् । न:। आ । भर । पिता । पुत्रेभ्य: । यथा । शिक्ष । न: । अस्मिन् । पुरुऽहूत । यामनि । जीवा: । ज्योति: । अशीमहि ॥३.६७॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 67
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६७−(इन्द्र) हे परमैश्वर्यवन् राजन् (क्रतुम्) प्रज्ञाम् (नः) अस्मभ्यम् (भर)पोषय (पिता) (पुत्रेभ्यः) भ्रातृपुत्रौ स्वसृदुहितृभ्याम्। पा० १।२।६८।इत्येकशेषः। पुत्रदुहितृभ्यः। सन्तानेभ्यः (यथा) (शिक्ष) अनुशाधि। शिक्षां कुरु (नः) अस्मान् (पुरुहूत) बहुप्रकारेणाहूत (यामनि) समये मार्गे वा (जीवाः)प्राणिनो वयम् (ज्योतिः) प्रकाशम् (अशीमहि) प्राप्नुयाम ॥
इस भाष्य को एडिट करें