Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 14
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
परा॑ यात पितर॒ आच॑ याता॒यं वो॑ य॒ज्ञो मधु॑ना॒ सम॑क्तः। द॒त्तो अ॒स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रंर॒यिं च॑ नः॒ सर्व॑वीरं दधात ॥
स्वर सहित पद पाठपरा॑ । या॒त॒ । पि॒त॒र॒: । आ । च॒ । या॒त॒। अ॒यम् । व॒: । य॒ज्ञ: । मधु॑ना । सम्ऽअ॑क्त: । द॒त्तो इति॑ । अ॒स्मभ्य॑म् । द्रवि॑णा । इ॒ह । भ॒द्रम् । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । द॒धा॒त॒ ॥३.१४॥
स्वर रहित मन्त्र
परा यात पितर आच यातायं वो यज्ञो मधुना समक्तः। दत्तो अस्मभ्यं द्रविणेह भद्रंरयिं च नः सर्ववीरं दधात ॥
स्वर रहित पद पाठपरा । यात । पितर: । आ । च । यात। अयम् । व: । यज्ञ: । मधुना । सम्ऽअक्त: । दत्तो इति । अस्मभ्यम् । द्रविणा । इह । भद्रम् । रयिम् । च । न: । सर्वऽवीरम् । दधात ॥३.१४॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(परा)प्राधान्येन (यात) गच्छत (पितरः) हे पित्रादिमहात्मानः (च) (आयात) आगच्छत (अयम्)उपस्थितः (वः) युष्माकम् (यज्ञः) पूजनीयव्यवहारः (मधुना) विज्ञानेन (समक्तः) अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु-क्त। सम्यग् व्यक्तीकृतः (दत्तो) दत्त-उ। प्रयच्छतैव (अस्मभ्यम्) द्रविणा धनानि (इह) (भद्रम्) कल्याणम् (रयिम्) धनम् (च) (नः)अस्मभ्यम् (सर्ववीरम्) सर्ववीरैरुपेतम् (दधात) धारयत ॥
इस भाष्य को एडिट करें