Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 54
सूक्त - इन्दु
देवता - पुरोऽनुष्टुप् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अथ॑र्वापू॒र्णं च॑म॒सं यमि॑न्द्रा॒याबि॑भर्वा॒जिनी॑वते। तस्मि॑न्कृणोति सुकृ॒तस्य॑भ॒क्षं तस्मि॒न्निन्दुः॑ पवते विश्व॒दानीम् ॥
स्वर सहित पद पाठअथ॑र्वा । पू॒र्णम् । च॒म॒सम् । यम् । इन्द्रा॑य । अबि॑भ: । वा॒जिनी॑ऽवते । तस्मि॑न् । कृ॒णो॒ति॒ । सु॒ऽकृ॒तस्य॑ । भ॒क्षम् । तस्मि॑न् इन्दु॑: । प॒व॒ते॒ । वि॒श्व॒ऽदानी॑म् ॥३.५४॥
स्वर रहित मन्त्र
अथर्वापूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते। तस्मिन्कृणोति सुकृतस्यभक्षं तस्मिन्निन्दुः पवते विश्वदानीम् ॥
स्वर रहित पद पाठअथर्वा । पूर्णम् । चमसम् । यम् । इन्द्राय । अबिभ: । वाजिनीऽवते । तस्मिन् । कृणोति । सुऽकृतस्य । भक्षम् । तस्मिन् इन्दु: । पवते । विश्वऽदानीम् ॥३.५४॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 54
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५४−(अथर्वा) अ० ४।१।७।थर्वतिश्चरतिकर्मा-निरु० ११।१८। स्नामदिपद्यर्ति०। उ० ४।११३। अ+थर्व चरणे-वनिप्, वलोपः। निश्चलः परमेश्वर (पूर्णम्) पर्याप्तम् (चमसम्) म० ५३। भक्षणीयपदार्थम् (यम्) (इन्द्राय) परमैश्वर्यवते पुरुषाय (अबिभः) बिभर्त्तेर्लङि प्रथमैकवचनम्।भृतवान् (वाजिनीवते) विज्ञानवतीक्रियायुक्ताय (तस्मिन्) चमसे (कृणोति) करोति (सुकृतस्य) पुण्यकर्मणः। धर्मस्य (भक्षम्) वृतॄवदिवचि०। उ० ३।६२। भज सेवायाम्-सप्रत्ययः। सेवनम्। भोगम् (तस्मिन्) (इन्दुः) परमैश्वर्यवान् पुरुषः (पवते)शोधयति (विश्वदानीम्) अ० ७।७३।११। विश्वानि सर्वाणि दानानि यस्यां तां क्रियाम्॥
इस भाष्य को एडिट करें