Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 17
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
क॒स्ये मृ॑जाना॒अति॑ यन्ति रि॒प्रमायु॒र्दधा॑नाः प्रत॒रं नवी॑यः। आ॒प्याय॑मानाः प्र॒जया॒धने॒नाध॑ स्याम सुर॒भयो॑ गृ॒हेषु॑ ॥
स्वर सहित पद पाठक॒स्यै । मृ॒जाना॑: । अति॑ । य॒न्ति॒ । रि॒प्रम् । आयु॑: । दधा॑ना : । प्र॒ऽत॒रम् । नवी॑य: । आ॒ऽप्याय॑माना: । प्र॒ऽजया॑ । धने॑न । अध॑ । स्या॒म॒ । सु॒र॒भय॑: । गृ॒हेषु॑ ॥३.१७॥
स्वर रहित मन्त्र
कस्ये मृजानाअति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः। आप्यायमानाः प्रजयाधनेनाध स्याम सुरभयो गृहेषु ॥
स्वर रहित पद पाठकस्यै । मृजाना: । अति । यन्ति । रिप्रम् । आयु: । दधाना : । प्रऽतरम् । नवीय: । आऽप्यायमाना: । प्रऽजया । धनेन । अध । स्याम । सुरभय: । गृहेषु ॥३.१७॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(कस्ये) अघ्न्यादयश्च। उ० ४।११२। कस गतिशासनयोः-यक्। ज्ञाने। शासने (मृजानाः) शोधकाः (अति) अतीत्य। उल्लङ्घ्य (यन्ति) गच्छन्ति (रिप्रम्)लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः। उ०। ५।५५। रीङ् स्रवणे-र प्रत्ययःकुत्सने धातोर्ह्रस्वत्वं पुट् च प्रत्ययस्य। रपो रिप्रमिति पापनामनी भवतः-निरु०४।२१। पापं कष्टम् (आयुः) जीवनम् (दधानाः) धारयन्तः (प्रतरम्) अधिकश्रेष्ठम् (नवीयः) नव-ईयसुन्। नवीनतरम् (आप्यायमानाः) प्रवर्धमानाः (प्रजया)सन्तानराज्यजनरूपया (धनेन) (अध) अथ (स्याम) (सुरभयः) अ० १२।१।२३। षुरऐश्वर्यदीप्त्योः-अभिच्। ऐश्वर्यवन्तः (गृहेषु) निवासेषु ॥
इस भाष्य को एडिट करें