Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 63
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यो द॒ध्रेअ॒न्तरि॑क्षे॒ न म॑ह्ना पितॄ॒णां क॒विः प्रम॑तिर्मती॒नाम्। तम॑र्चतवि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ॥
स्वर सहित पद पाठय: । द॒ध्रे । अ॒न्तरि॑क्षे । न । म॒ह्ना । पि॒तॄ॒णाम् । क॒वि: । प्रऽम॑ति: । म॒ती॒नाम् । तम् । अ॒र्च॒त॒ । वि॒श्वऽमि॑त्रा: । ह॒वि:ऽभि॑: । स: । न॒: । य॒म: । प्र॒ऽत॒रम् । जी॒वसे॑ । धा॒त् ॥३.६३॥
स्वर रहित मन्त्र
यो दध्रेअन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम्। तमर्चतविश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥
स्वर रहित पद पाठय: । दध्रे । अन्तरिक्षे । न । मह्ना । पितॄणाम् । कवि: । प्रऽमति: । मतीनाम् । तम् । अर्चत । विश्वऽमित्रा: । हवि:ऽभि: । स: । न: । यम: । प्रऽतरम् । जीवसे । धात् ॥३.६३॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 63
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६३−(यः) परमात्मा (दध्रे) धृञ् धारणे-लिट्। धृतवान् (अन्तरिक्षे) आकाशे (न) णह बन्धने-ड। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्लुक्। नेन प्रबन्धेन। आकर्षणादिनियमेन (मह्ना) स्वमहिम्ना (पितॄणाम्)पालकमहात्मनां मध्ये (कविः) मेधावी (प्रमतिः) प्रकृष्टबुद्धियुक्तः (मतीनाम्)मतयो मेधाविनाम-निघ० ३।१५। मेधाविनां मध्ये (तम्) परमात्मानम् (अर्चत) पूजयत (विश्वमित्राः) सर्वेषां सखायः सन्तः (हविर्भिः) आत्मदानैः (सः) (नः) अस्मान् (यमः) नियामकः परमेश्वरः (प्रतरम्) प्रकृष्टतरम् (जीवसे) जीवनाय (धात्)दध्यात्। धारयेत् ॥
इस भाष्य को एडिट करें