Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 21
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अधा॒ यथा॑ नःपि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शशा॒नाः। शुचीद॑य॒न्दीध्य॑त उक्थ॒शासः॒क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ॥

    स्वर सहित पद पाठ

    अध॑ । यथा॑ । न॒: । पि॒तर॑: । परा॑स: । प्र॒त्नास॑: । अ॒ग्ने॒ । ऋ॒तम् । आ॒ऽश॒शा॒ना: । शुचि॑ । इत् । अ॒य॒न् । दीध्य॑त: । उ॒क्थ॒ऽशस॑: । क्षाम॑ । भि॒न्दन्त॑: । अ॒रु॒णी: । अप॑ । व्र॒न् ॥३.२१॥


    स्वर रहित मन्त्र

    अधा यथा नःपितरः परासः प्रत्नासो अग्न ऋतमाशशानाः। शुचीदयन्दीध्यत उक्थशासःक्षामा भिन्दन्तो अरुणीरप व्रन् ॥

    स्वर रहित पद पाठ

    अध । यथा । न: । पितर: । परास: । प्रत्नास: । अग्ने । ऋतम् । आऽशशाना: । शुचि । इत् । अयन् । दीध्यत: । उक्थऽशस: । क्षाम । भिन्दन्त: । अरुणी: । अप । व्रन् ॥३.२१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 21

    टिप्पणीः - २१−(अध) अथ। अनन्तरम् (यथा) येन प्रकारेण (नः) अस्माकम् (पितरः) (परासः) पराः। उत्कृष्टाः (प्रत्नासः) प्रत्नाः। प्राचीनाः (अग्ने) हे विद्वन् (ऋतम्) सत्यधर्मम् (आशशानाः) आङ्+शो तनूकरणे यद्वा शश प्लुतगतौ-कानच्।सूक्ष्मीकुर्वाणाः (शुचि) पवित्रं कर्म (इत्) एव (अयन्) इण् गतौ-लङ्।प्राप्तवन्तः (उक्थशासः) मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्। पा० ३।२।७१।उक्थ+शंसु स्तुतौ−ण्विन्, नकारलोपः, पदकाले ह्रस्वश्छान्दसः। उक्थ्यानांप्रशंसनीयकर्मणां शंसितारः स्तोतारः (क्षाम) सर्वधातुभ्यो मनिन्। उ० ४।१४५। क्षैक्षये-मनिन्। क्षयम्। हानिम् (भिन्दन्तः) छिन्दन्तः। विदारयन्तः (अरुणीः)अर्तेश्च। उ० ३।६०। ऋ गतौ-उनन् चित्, ङीप्। प्राप्तव्याः क्रियाः (अप व्रन्)वृणोतेर्लुङ्। मन्त्रे घसह्वरणशवृ०। मा० २।४।८०। इति च्लेर्लुक्। अपावृण्वन्।प्रकाशितवन्तः ॥

    इस भाष्य को एडिट करें
    Top