Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 6
यं त्वम॑ग्नेस॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑। क्याम्बू॒रत्र॑ रोहतु शाण्डदू॒र्वा व्यल्कशा॥
स्वर सहित पद पाठयम् । त्वम् । अ॒ग्ने॒ । स॒म्ऽअद॑ह: । तम् । ऊं॒ इति॑ । नि: । वा॒प॒य॒ । पुन॑: । क्याम्बू॑: । अत्र॑ । रो॒ह॒तु॒ । शा॒ण्ड॒ऽदू॒र्वा । विऽअ॑ल्कशा ॥३.५॥
स्वर रहित मन्त्र
यं त्वमग्नेसमदहस्तमु निर्वापया पुनः। क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा॥
स्वर रहित पद पाठयम् । त्वम् । अग्ने । सम्ऽअदह: । तम् । ऊं इति । नि: । वापय । पुन: । क्याम्बू: । अत्र । रोहतु । शाण्डऽदूर्वा । विऽअल्कशा ॥३.५॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(यम्) ब्रह्मचारिणम् (त्वम्) (अग्ने) हे विद्वन् (समदहः)समन्ताद् ब्रह्मचर्यादितपः कारितवानसि (तम्) ब्रह्मचारिणम् (उ) पादपूर्त्तौ (निः) निश्चयेन (वापय) डुवप बीजसन्ताने-णिच्। बीजवद् विस्तारय (पुनः) अवधारणे (क्याम्बूः) वातेर्डिच्च। उ० ४।१३४। कि कित वा ज्ञाने-इण्प्रत्ययः, डित्।णित्कशिपद्यर्त्तेः। उ० १।८५। अबि शब्दे ऊ प्रत्ययो णित्। ज्ञानस्य शब्दयित्रीज्ञापयित्री (अत्र) संसारे (रोहतु) प्रादुर्भवतु (शाण्डदूर्वा) शडि संघाते रोगेच-घञ्+दुर्व दूर्व हिंसायाम्-अच्, टाप्, दुःखस्य नाशयित्री (व्यल्कशा)कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। वि+अल भूषणपर्याप्तिशक्तिवारणेषु-क प्रत्ययः शोमत्वर्थीयः। विविधशोभावती शक्तिः ॥
इस भाष्य को एडिट करें