Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 68
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अ॑पू॒पापि॑हितान्कु॒म्भान्यांस्ते॑ दे॒वा अधा॑रयन्। ते ते॑ सन्तु स्व॒धाव॑न्तो॒मधु॑मन्तो घृत॒श्चुतः॑ ॥
स्वर सहित पद पाठअ॒पू॒पऽअ॑पिहितान् । कु॒म्भान् । यान् । ते॒ । दे॒वा: । अधा॑रयन् । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽमन्त: । घृ॒त॒ऽश्चुत॑: ॥३.६८॥
स्वर रहित मन्त्र
अपूपापिहितान्कुम्भान्यांस्ते देवा अधारयन्। ते ते सन्तु स्वधावन्तोमधुमन्तो घृतश्चुतः ॥
स्वर रहित पद पाठअपूपऽअपिहितान् । कुम्भान् । यान् । ते । देवा: । अधारयन् । ते । ते । सन्तु । स्वधाऽवन्त: । मधुऽमन्त: । घृतऽश्चुत: ॥३.६८॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 68
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६८−(अपूपापिहितान्) पानीविषिभ्यः पः। उ० ३।२३। नञ्+पूयी विशरणेदुर्गन्धे च-प प्रत्ययः, यलोपः। अविशीर्णा अक्षीणा अपूपाः सुसंस्कृतभोजनपदार्थाअपिहिता आच्छादिता येषु तान्। सुसंस्कृतभोजनपदार्थपूर्णान् (कुम्भान्) पटान् (यान्) (ते) तुभ्यम् (देवाः) विद्वांसः (अधारयन्) धारितवन्तः (ते) कुम्भाः (ते)तुभ्यम् (सन्तु) (स्वधावन्तः) आत्मधाऱणशक्तियुक्ताः (मधुमन्तः) मधुरगुणोपेताः (घृतश्चुतः) श्चुतिर् क्षरणे-क्विप्। घृतस्य साररसस्य सेचकाः ॥
इस भाष्य को एडिट करें