Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 71
सूक्त - यम, मन्त्रोक्त
देवता - उपरिष्टात् बृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आ र॑भस्वजातवेद॒स्तेज॑स्व॒द्धरो॑ अस्तु ते। शरी॑रमस्य॒ सं द॒हाथै॑नं धेहि सु॒कृता॑मुलो॒के ॥
स्वर सहित पद पाठआ । र॒भ॒स्व॒ । जा॒त॒ऽवे॒द॒: । तेज॑स्वत् । हर॑: । अ॒स्तु॒ । ते॒ । शरी॑रम् । अ॒स्य॒ । सम् । द॒ह॒ । अथ॑ । ए॒न॒म् । धे॒हि । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒के ॥३.७१॥
स्वर रहित मन्त्र
आ रभस्वजातवेदस्तेजस्वद्धरो अस्तु ते। शरीरमस्य सं दहाथैनं धेहि सुकृतामुलोके ॥
स्वर रहित पद पाठआ । रभस्व । जातऽवेद: । तेजस्वत् । हर: । अस्तु । ते । शरीरम् । अस्य । सम् । दह । अथ । एनम् । धेहि । सुऽकृताम् । ऊं इति । लोके ॥३.७१॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 71
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७१−(आ रभस्व)उपक्रमस्व धर्मम् (जातवेदः) जातानि प्रसिद्धानि वेदांसि ज्ञानानि यस्यतत्सम्बुद्धौ (तेजस्वत्) प्रकाशयुक्तम् (हरः) हरतेरसुन्। ग्रहणसामर्थ्यम्। बलम् (अस्तु) (ते) तव (शरीरम्) (अस्य) प्राणिनः (सम्) सम्यक् (दह) तापयब्रह्मचर्यादितपसा (अथ) (अनन्तरम्) (एनम्) प्राणिनम् (धेहि) स्थापय (सुकृताम्)पुण्यकर्मणाम् (उ) अवश्यम् (लोके) समाजे ॥
इस भाष्य को एडिट करें