Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 46
ये नः॑ पि॒तुःपि॒तरो॒ ये पि॑ताम॒हा अ॑नूजहि॒रे सो॑मपी॒थं वसि॑ष्ठाः। तेभि॑र्य॒मः सं॑ररा॒णोह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥
स्वर सहित पद पाठये । न॒: । पि॒तु: । पि॒तर॑: । ये । पि॒ता॒म॒हा: । अ॒नु॒ऽज॒हि॒रे । सो॒म॒ऽपी॒थम् । वसि॑ष्ठा: । तेभि॑: । य॒म: । स॒म्ऽर॒रा॒ण: । ह॒वींषि॑ । उ॒शन् । उ॒शत्ऽभि॑: । प्र॒ति॒ऽका॒मम् । अ॒त्तु॒ ॥३.४६॥
स्वर रहित मन्त्र
ये नः पितुःपितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः। तेभिर्यमः संरराणोहवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥
स्वर रहित पद पाठये । न: । पितु: । पितर: । ये । पितामहा: । अनुऽजहिरे । सोमऽपीथम् । वसिष्ठा: । तेभि: । यम: । सम्ऽरराण: । हवींषि । उशन् । उशत्ऽभि: । प्रतिऽकामम् । अत्तु ॥३.४६॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 46
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४६−(ये) (नः) अस्माकम् (पितुः) जनकस्य (पितरः) पितृवत्पालकाः (ये) (पितामहाः) जनकस्य पितृवद् वृद्धाः (अनु-जहिरे) हृञ्स्वीकारादिषु-लिट्। अनुजह्रिरे। निरन्तरं स्वीचक्रुः (सोमपीथम्)निशीथगोपीथावगथाः। उ० २।९। सोम+पा रक्षणे-थक्। ऐश्वर्यरक्षणम् (वसिष्ठाः)वसुतमाः। अतिशयेन श्रेष्ठाः सन्तः (तेभिः) तैः (यमः) न्यायी। संयमी सन्तानः (संरराणः) रा दाने-कानच्। सम्यक्सुखदाता (हवींषि) दातव्यग्राह्यभोजनानि (उशन्)कामयमानः (उशद्भिः) कामयमानैः (प्रतिकामम्) कामं कामं प्रति (अत्तु) भक्षयतु ॥
इस भाष्य को एडिट करें