Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 2
दे॒वाय॒ज्ञमृ॒तवः॑ कल्पयन्ति ह॒विः पु॑रो॒डाशं॑ स्रु॒चो य॑ज्ञायु॒धानि॑।तेभि॒र्याहि॑ प॒थिभि॑र्देव॒यानै॒र्यैरी॑जा॒नाः स्व॒र्गं य॑न्ति लो॒कम् ॥
स्वर सहित पद पाठदे॒वा: । य॒ज्ञम् । ऋ॒तव॑: । क॒ल्प॒य॒न्ति॒ । ह॒वि: । पु॒रो॒डाश॑म् । स्रु॒च: । य॒ज्ञ॒ऽआ॒यु॒धानि॑ । तेभि॑: । या॒हि॒ । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: । यै: । ई॒जा॒ना: । स्व॒:ऽगम् । यन्ति॑ । लो॒कम् ॥४.२॥
स्वर रहित मन्त्र
देवायज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि।तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥
स्वर रहित पद पाठदेवा: । यज्ञम् । ऋतव: । कल्पयन्ति । हवि: । पुरोडाशम् । स्रुच: । यज्ञऽआयुधानि । तेभि: । याहि । पथिऽभि: । देवऽयानै: । यै: । ईजाना: । स्व:ऽगम् । यन्ति । लोकम् ॥४.२॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 2
विषय - सत्य मार्ग पर चलने का उपदेश।
पदार्थ -
(देवाः) विद्वान् लोगऔर (ऋतवः) सब ऋतुएँ (यज्ञम्) यज्ञ [हवन आदि श्रेष्ठ व्यवहार], (हविः) हवि [होमीय वस्तु], (पुरोडाशम्) पुरोडाश [मोहनभोग आदि], (स्रुचः) स्रुचाओं [हवन केचमचों] और (यज्ञायुधानि) यज्ञ के अस्त्र-शस्त्रों [उलूखल, मूसल, सूप आदि] को (कल्पयन्ति) रचते हैं। [हे मनुष्य !] (तेभिः) उन (देवयानैः) विद्वानों के चलनेयोग्य (पथिभिः) मार्गों से (याहि) तू चल, (यैः) जिन [मार्गों] से (ईजानाः) यज्ञकर चुकनेवाले लोग (स्वर्गम्) सुख पहुँचानेवाले (लोकम्) समाज में (यन्ति) पहुँचतेहैं ॥२॥
भावार्थ - विद्वान् लोग सब ऋतुओंमें योग्य सामग्री द्वारा यज्ञ करके श्रेष्ठ कर्म करते रहें और सबसे कराते रहें, क्योंकि श्रेष्ठ कर्म समाप्त कर लेनेवाले ही आनन्द पद के अधिकारी होते हैं॥२॥
टिप्पणी -
२−(देवाः) विद्वांसः (यज्ञम्) यजनीयं व्यवहारम् (ऋतवः) वसन्तादिकालाश्च (कल्पयन्ति) रचयन्ति (हविः) हु दानादानादनेषु-इसि। हवनीयद्रव्यम् (पुरोडाशम्) अ०९।६(१)१२। पुरो अग्रे दाश्यते दीयते। दाशृ दाने-घञ्, दस्य डः।संस्कृतान्नविशेषम् (स्रुचः) चिक् च। उ० २।६। स्रु गतौ−चिक् प्रत्ययः।यज्ञचमसान् (यज्ञायुधानि) यज्ञसाधनान्यस्त्रशस्त्रादीनि (तेभिः) तैः (याहि) गच्छ (पथिभिः) मार्गैः (देवयानैः) विद्वद्भिर्गन्तव्यैः (यैः) पथिभिः (ईजानाः) म० १।समाप्तयज्ञाः पुरुषाः (स्वर्गम्) सुखप्रापकम् (यन्ति) गच्छन्ति (लोकम्) समाजम् ॥