Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 32
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
धा॒नाधे॒नुर॑भवद्व॒त्सो अ॑स्यास्ति॒लोऽभ॑वत्। तां वै य॒मस्य॒ राज्ये॒ अक्षि॑ता॒मुप॑जीवति ॥
स्वर सहित पद पाठधा॒ना: । धे॒नु: । अ॒भ॒व॒त् । व॒त्स: । अ॒स्या॒: । ति॒ल: । अ॒भ॒व॒त् । ताम् । वै । य॒मस्य॑ । राज्ये॑ । अक्षि॑ताम् । उप॑ । जी॒व॒ति॒ ॥४.३२॥
स्वर रहित मन्त्र
धानाधेनुरभवद्वत्सो अस्यास्तिलोऽभवत्। तां वै यमस्य राज्ये अक्षितामुपजीवति ॥
स्वर रहित पद पाठधाना: । धेनु: । अभवत् । वत्स: । अस्या: । तिल: । अभवत् । ताम् । वै । यमस्य । राज्ये । अक्षिताम् । उप । जीवति ॥४.३२॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 32
विषय - गोरक्षा का उपदेश।
पदार्थ -
(अस्याः) इस [गौ] से (धानाः) धानियें [सुसंस्कृत पौष्टिक पदार्थ] और (धेनुः) गौ और (वत्सः) बछड़ा (अभवत्) होता है और (तिलः) तिल [तिल सरसों आदि] (अभवत्) होता है। (यमस्य)न्यायकारी राजा के (राज्ये) राज्य में [मनुष्य] (वै) निश्चय करके (ताम्) उस (अक्षिताम्) बिना सतायी हुई [गौ] के (उप जीवति) सहारे से जीवता है ॥३२॥
भावार्थ -
उत्तम राज्य केप्रबन्ध द्वारा गौ के उपकार से अन्न और तेल आदि भोजन आदि के लिये तथा गौ दूध, घीआदि के लिये और बैल खेती आदि के लिये होते हैं, जिन पदार्थों के ऊपर मनुष्य काजीवन निर्भर है ॥३२॥
टिप्पणी -
३२−(धानाः) सुसंस्कृतपौष्टिकपदार्थाः (धेनुः) दोग्ध्री गौः (अभवत्) भवति (वत्सः) गोशिशुः। वृषभः (अस्याः) धेनोः सकाशात् (तिलः)तिलसर्षपादिपदार्थः (ताम्) गाम् (वै) निश्चयेन (यमस्य) न्यायशीलस्य राज्ञः (राज्ये) जनपदे (अक्षिताम्) अहिंसिताम् (उप) उपेत्य (जीवति) प्राणान् धारयति ॥