Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 44
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒दं पूर्व॒मप॑रंनि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः। पु॑रोग॒वा ये अ॑भि॒शाचो॑ अस्य॒ तेत्वा॑ वहन्ति सु॒कृता॑मु लो॒कम् ॥
स्वर सहित पद पाठइ॒दम् । पूर्व॑म् । अप॑रम् । नि॒ऽयान॑म् । येन॑ । ते॒ । पूर्वे॑ । पि॒तर॑: । परा॑ऽइता: । पु॒र॒:ऽग॒वा: । ये । अ॒भि॒ऽशाच॑: । अ॒स्य॒ । ते । त्वा॒ । व॒ह॒न्ति॒ । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥४.४४॥
स्वर रहित मन्त्र
इदं पूर्वमपरंनियानं येना ते पूर्वे पितरः परेताः। पुरोगवा ये अभिशाचो अस्य तेत्वा वहन्ति सुकृतामु लोकम् ॥
स्वर रहित पद पाठइदम् । पूर्वम् । अपरम् । निऽयानम् । येन । ते । पूर्वे । पितर: । पराऽइता: । पुर:ऽगवा: । ये । अभिऽशाच: । अस्य । ते । त्वा । वहन्ति । सुऽकृताम् । ऊं इति । लोकम् ॥४.४४॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 44
विषय - पितरों की सेवा का उपदेश।
पदार्थ -
[हे मनुष्य !] (इदम्)यह (पूर्वम्) पहिला और (अवरम्) पिछला (नियानम्) निश्चित मार्ग है, (येन) जिस से (ते) तेरे (पूर्वे) पहिले [प्रधान] (पितरः) पितर लोग (परेताः) बल के साथ गयेहैं। (ये) जो [पितर] (अस्य) इस [मार्ग] के (पुरोगवाः) आगे चलनेवाले और (अभिशाचः)सब प्रकार उपदेश करनेवाले हैं, (ते) वे [पितर] (त्वा) तुझको (सुकृताम्)सुकर्मियों के (उ) ही (लोकम्) समाज में (वहन्ति) पहुँचाते हैं ॥४४॥
भावार्थ - पितरों अर्थात्विद्वान् जनों की सेवा करना प्राचीन और अर्वाचीन अर्थात् सार्वभौम और सर्वकालीनधर्म है, उन की सेवा से मनुष्य योग्य होकर विद्वानों में प्रतिष्ठा पाता है॥४४॥
टिप्पणी -
४४−(इदम्) पितृसेवारूपमाचरणम् (पूर्वम्) पुरातनम् (अपरम्) अर्वाचीनम् (नियानम्) निश्चितमार्गः (येन) मार्गेण (ते) तव (पूर्वे) प्रथमपदस्थाः प्रधानाः (पितरः) पालका विद्वांसः (परेताः) परा प्राधान्येन गताः (पुरोगवाः)गोरतद्धितलुकि। पा० ५।४।९२। इति पुरः+गो-टच्, तत्पुरुषे समासान्तः। अग्रगामिनः (ये) पितरः (अभिशाचः) वहश्च। पा० ३।२।६४। अभि+शच व्यक्तायां वाचि−ण्विप्रत्ययोबाहुलकात् सर्वत उपदेशकाः (अस्य) नियानस्य। निश्चितमार्गस्य (ते) पितरः (त्वा)त्वां पितृसेवकम् (वहन्ति) प्रापयन्ति (सुकृताम्) पुण्यकर्मणाम् (उ) निश्चयेन (लोकम्) समाजम् ॥