Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 70
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
प्रास्मत्पाशा॑न्वरुण मुञ्च॒ सर्वा॒न्यैः स॑मा॒मे ब॒ध्यते॒ यैर्व्या॒मे। अधा॑जीवेम श॒रदं॑ शतानि॒ त्वया॑ राजन्गुपि॒ता रक्ष॑माणाः ॥
स्वर सहित पद पाठप्र । अ॒स्मत् । पाशा॑न् । व॒रु॒ण॒ । मु॒ञ्च॒ । सर्वा॑न् । यै: । स॒म्ऽआ॒मे । ब॒ध्यते॑ । यै: । वि॒ऽआ॒मे । अध॑ । जी॒वे॒म॒ । श॒रद॑म् । श॒तानि॑ । त्वया॑ । रा॒ज॒न् । गु॒पि॒ता: । रक्ष॑माणा: ॥४.७०॥
स्वर रहित मन्त्र
प्रास्मत्पाशान्वरुण मुञ्च सर्वान्यैः समामे बध्यते यैर्व्यामे। अधाजीवेम शरदं शतानि त्वया राजन्गुपिता रक्षमाणाः ॥
स्वर रहित पद पाठप्र । अस्मत् । पाशान् । वरुण । मुञ्च । सर्वान् । यै: । सम्ऽआमे । बध्यते । यै: । विऽआमे । अध । जीवेम । शरदम् । शतानि । त्वया । राजन् । गुपिता: । रक्षमाणा: ॥४.७०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 70
विषय - ईश्वर के नियमों का उपदेश।
पदार्थ -
(वरुण) हे दुःखनिवारकपरमेश्वर ! (अस्मत्) हम से (सर्वान्) सब (पाशान्) फन्दों को (प्र मुञ्च) खोल दे, (यैः) जिन [फन्दों] से (समामे) छूत रोग में, और (यैः) जिन से (व्यामे) विशेष रोगमें (बध्यते) [प्राणी] बाँधा जाता है। (अध) तब (राजन्) हे राजन् ! [परमेश्वर] (त्वया)तुझ कर के (गुपिताः) रक्षा किये गये और (रक्षमाणाः) [दूसरों की] रक्षा करते हुएहम (शतानि) सैकड़ों (शरदम्) बरसों तक (जीवेम) जीवें ॥७०॥
भावार्थ - मनुष्यों को योग्य हैकि जो कोई रोग परस्पर छूत से वा कुपथ्य आदि दोष से हो जावें, परमेश्वर की उपासनाकरते हुए वैद्यराजों की सम्मति से उन रोगों का निवारण करके स्वस्थ रहकर सबकीरक्षा करें ॥७०॥
टिप्पणी -
७०−(प्रमुञ्च) सर्वथा मोचय (अस्मत्) अस्मत्तः (पाशान्) बन्धान् (वरुण) हे दुःखनिवारकपरमात्मन् (सर्वान्) (यैः) पाशैः (समामे) सम्+अम रोगेपीडने-घञ्। संगतिरोगे। सम्पर्केण प्राप्ते रोगे (बध्यते) बन्धं प्राप्नोति (यैः) (व्यामे) विशेषरोगे (जीवेम) पाशान् धारयेम (शरदम्) शरदः। संवत्सरान् (शतानि)बहुसंख्याकानि (त्वया) (राजन्) हे शासक परमात्मन् (गुपिताः) रक्षिताः (रक्षमाणाः) अन्यान् रक्षन्तः ॥