Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 40
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आपो॑ अ॒ग्निं प्रहि॑णुत पि॒तॄँरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्। आसी॑ना॒मूर्ज॒मुप॒ येसच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑च्छान् ॥
स्वर सहित पद पाठआप॑: । अ॒ग्निम् । प्र । हि॒णु॒त॒ । पि॒तॄन् । उप॑ । इ॒मम् । य॒ज्ञम् । पि॒तर॑: । मे॒ । जु॒ष॒न्ता॒म् । आसी॑नाम् । उर्ज॑म् । उप॑ । ये । सच॑न्ते । ते । न॒: । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छा॒न् ॥४.४०॥
स्वर रहित मन्त्र
आपो अग्निं प्रहिणुत पितॄँरुपेमं यज्ञं पितरो मे जुषन्ताम्। आसीनामूर्जमुप येसचन्ते ते नो रयिं सर्ववीरं नि यच्छान् ॥
स्वर रहित पद पाठआप: । अग्निम् । प्र । हिणुत । पितॄन् । उप । इमम् । यज्ञम् । पितर: । मे । जुषन्ताम् । आसीनाम् । उर्जम् । उप । ये । सचन्ते । ते । न: । रयिम् । सर्वऽवीरम् । नि । यच्छान् ॥४.४०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 40
विषय - गोरक्षा का उपदेश।
पदार्थ -
(आपः) हे प्राप्तियोग्य [गौओ !] (अग्निम्) अग्नि [प्रताप वा बल] को (पितॄन् उप) पितरों में (प्रहिणुत) बढ़ाये जाओ, (मे) मेरे (इमम्) इस (यज्ञम्) सत्कार को (पितरः) पितर लोग (जुषन्ताम्) सेवन करें। (ये) जो [पितर लोग] (आसीनाम्) उपस्थित (ऊर्जम्) बलकारकरस [दूध घी आदि] को (उप) आदर से (सचन्ते) सेवें, (ते) वे [विद्वान् पितर] (नः)हमें (सर्ववीरम्) पूरे वीर पुरुषवाला (रयिम्) धन (नि) नियम से (यच्छान्) देवें॥४०॥
भावार्थ - मनुष्यों को योग्य हैकि उत्तम दूध, घी आदि पदार्थों से विद्वान् बड़े-बूढ़ों को तृप्त करते रहें, जिससे उनके विद्यादान और आशीर्वाद से गृहस्थों के कार्यकुशल वीर सन्तानें और बहुतधन होवें ॥४०॥
टिप्पणी -
४०−(आपः) म० ३९। प्राप्तव्या गावः (अग्निम्) प्रतापं बलं मा (प्र)प्रकर्षेण (हिणुत) हि गतिवृद्ध्योः। वर्धयत (पितॄन्) पालकान् विदुषः पुरुषान् (उप) प्रति (इमम्) अनुष्ठीयमानम् (यज्ञम्) सत्कारम् (पितरः) (मे) मम (जुषन्ताम्)सेवन्ताम् (आसीनाम्) उपविष्टाम्। उपस्थिताम् (ऊर्जम्) बलकरं रसं दुग्धघृतादिकम् (ये) पितरः (सचन्ते) सेवन्ते (ते) पितरः (नः) अस्मभ्यम् (रयिम्) धनम् (सर्ववीरम्) पूर्णवीरैरुपेतम् (नि) नियमेन (यच्छान्) अ० १२।३।३८। लेटि रूपम्।यच्छन्तु। ददतु ॥