Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 11
शम॑ग्नेप॒श्चात्त॑प॒ शं पु॒रस्ता॒च्छमु॑त्त॒राच्छम॑ध॒रात्त॑पैनम्। एक॑स्त्रे॒धाविहि॑तो जातवेदः स॒म्यगे॑नं धेहि सु॒कृता॑मु लो॒के ॥
स्वर सहित पद पाठशम् । अ॒ग्ने॒ । प॒श्चात् । त॒प॒ । शम् । पु॒रस्ता॑त् । शम् । उ॒त्त॒रात् । शम् । अ॒ध॒रात् । त॒प॒ । ए॒न॒म् । एक॑: । त्रे॒धा । विऽहि॑त: । जा॒त॒ऽवे॒द॒: । स॒म्यक् । ए॒न॒म् । धे॒हि॒ । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒के ॥४.११॥
स्वर रहित मन्त्र
शमग्नेपश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम्। एकस्त्रेधाविहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥
स्वर रहित पद पाठशम् । अग्ने । पश्चात् । तप । शम् । पुरस्तात् । शम् । उत्तरात् । शम् । अधरात् । तप । एनम् । एक: । त्रेधा । विऽहित: । जातऽवेद: । सम्यक् । एनम् । धेहि । सुऽकृताम् । ऊं इति । लोके ॥४.११॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 11
विषय - सत्य मार्ग पर चलने का उपदेश।
पदार्थ -
(अग्ने) हे अग्नि ! (एनम्) इस [विद्वान्] को (शम्) शान्ति के साथ (पश्चात्) पीछे से, (शम्) शान्तिके साथ (पुरस्तात्) सामने से (तप) प्रतापी कर, (शम्) शान्ति के साथ (उत्तरात्)ऊपर से और (शम्) शान्ति के साथ (अधरात्) नीचे से (तप) प्रतापी कर। (जातवेदः) हेउत्पन्न पदार्थों में विद्यमान [अग्नि] (एकः) अकेला होकर (त्रेधा) तीन प्रकार से [पूर्वाग्नि, गार्हपत्य और दक्षिणाग्नि रूप से] (विहितः) स्थापित किया हुआ तू (एनम्) इस [पुरुष] को (सुकृताम्) सुकर्मियों के (उ) ही (लोके) समाज में (सम्यक्)ठीक रीति से (धेहि) रख ॥११॥
भावार्थ - मनुष्यों को योग्य हैकि हवन आदि यज्ञ द्वारा अपने इन्द्रियों को वश में करके पुण्यात्मा पुरुषों मेंस्थान पावें ॥११॥
टिप्पणी -
११−(शम्) शान्त्या। सुखेन (अग्ने) हे यज्ञाग्ने (पश्चात्)पृष्ठतः (तप) तप ऐश्वर्ये। तापय। प्रतापिनं कुरु (शम्) (पुरस्तात्) अग्रतः (शम्) (उत्तरात्) उपरिदेशात् (शम्) (अधरात्) अधोगतदेशात् (तप) (एनम्) पुरुषम् (एकः)एकसंख्याकः (त्रेधा) त्रिप्रकारेण। पूर्वाग्निगार्हपत्यदक्षिणाग्निरूपेण (विहितः) स्थापितः (जातवेदः) विद सत्तायाम्-असुन्। हे जातेषु उत्पन्नेषुविद्यमानाग्ने (सम्यक्) यथा तथा। समीचीनम् (एनम्) यजमानम् (धेहि) धारय (सुकृताम्) पुण्यकर्मणाम् (उ) एव (लोके) समाजे ॥