Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 51
इ॒दं पि॒तृभ्यः॒प्र भ॑रामि ब॒र्हिर्जी॒वं दे॒वेभ्य॒ उत्त॑रं स्तृणामि। तदा रो॑ह पुरुष॒ मेध्यो॒भव॒न्प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम् ॥
स्वर सहित पद पाठइ॒दम् । पि॒तृऽभ्य॑: । प्र । भ॒रा॒मि॒ । ब॒र्हि:। जीवम् । दे॒वेभ्य॒: । उत्ऽत॑रम् । स्तृ॒णा॒मि॒। तत् । आ । रो॒ह॒ । पु॒रु॒ष॒ । मेध्य॑: । भव॑न् । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् ॥४.५१॥
स्वर रहित मन्त्र
इदं पितृभ्यःप्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि। तदा रोह पुरुष मेध्योभवन्प्रति त्वा जानन्तु पितरः परेतम् ॥
स्वर रहित पद पाठइदम् । पितृऽभ्य: । प्र । भरामि । बर्हि:। जीवम् । देवेभ्य: । उत्ऽतरम् । स्तृणामि। तत् । आ । रोह । पुरुष । मेध्य: । भवन् । प्रति । त्वा । जानन्तु । पितर: । पराऽइतम् ॥४.५१॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 51
विषय - पितरों और सन्तान के कर्तव्य का उपदेश।
पदार्थ -
(इदम्) यह (बर्हिः)उत्तम आसन (पितृभ्यः) पितरों के लिये (प्र भरामि) आगे धरता हूँ, और (देवेभ्यः)श्रेष्ठ गुणों के लिये (जीवम्) इस जीव [अपने आत्मा] को (उत्तरम्) अधिक ऊँचा (स्तृणामि) फैलाता हूँ। (पुरुष) हे पुरुष ! (मेध्यः) पवित्र (भवन्) होता हुआ तू (तत्) उस [आसन] पर (आ रोह) ऊँचा हो, [तव] (पितरः) पितर लोग (त्वा) तुझे (परेतम्)प्रधानता को पहुँचा हुआ (प्रति) प्रत्यक्ष (जानन्तु) जानें ॥५१॥
भावार्थ - मनुष्य विद्वान् जनोंकी प्रतिष्ठा करके और उनके समान शुद्धाचारी होकर अपने जीवन को श्रेष्ठ औरप्रतिष्ठित बनावें ॥५१॥
टिप्पणी -
५१−(इदम्) (पितृभ्यः) पित्रादिमान्येभ्यः (प्र) प्रकर्षेण (भरामि) धरामि (बर्हिः) उत्तमासनम् (जीवम्) स्वात्मानम् (देवेभ्यः) दिव्यगुणानांप्राप्तये (उत्तरम्) उत्कृष्टतरम् (स्तृणामि) विस्तारयामि (तत्) आसनम् (आरोह)आतिष्ठ (पुरुष) (मेध्यः) पवित्रः (भवन्) सन् (प्रति) प्रत्यक्षेण (त्वा) त्वाम् (जानन्तु) (पितरः) (परेतम्) परा प्राधान्यं गतं प्राप्तम् ॥