Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 11
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रयवसाना षट्पदा विराडष्टिः सूक्तम् - भूमि सूक्त

    गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तोऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु। ब॒भ्रुं कृ॒ष्णां रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम्। अजी॒तोऽह॑तो॒ अक्ष॒तोऽध्य॑ष्ठां पृथि॒वीमह॑म् ॥

    स्वर सहित पद पाठ

    गि॒रय॑: । ते॒ । पर्व॑ता: । हि॒मऽव॑न्त: । अर॑ण्यम् । ते॒ । पृ॒थि॒व‍ि॒ । स्यो॒नम् । अ॒स्तु॒ । ब॒भ्रुम् । कृ॒ष्णाम् । रोहि॑णीम् । वि॒श्वऽरू॑पाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । इन्द्र॑ऽगुप्ताम् । अजी॑त: । अह॑त: । अक्ष॑त: । अधि॑ । अ॒स्था॒म् । पृ॒थि॒वीम् । अ॒हम् ॥१.११॥


    स्वर रहित मन्त्र

    गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु। बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम्। अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥

    स्वर रहित पद पाठ

    गिरय: । ते । पर्वता: । हिमऽवन्त: । अरण्यम् । ते । पृथिव‍ि । स्योनम् । अस्तु । बभ्रुम् । कृष्णाम् । रोहिणीम् । विश्वऽरूपाम् । ध्रुवाम् । भूमिम् । पृथिवीम् । इन्द्रऽगुप्ताम् । अजीत: । अहत: । अक्षत: । अधि । अस्थाम् । पृथिवीम् । अहम् ॥१.११॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 11

    टिप्पणीः - ११−(गिरयः) क्षुद्रपर्वताः (ते) तव (पर्वताः) विशालशैलाः (हिमवन्तः) प्रचुरहिमयुक्ताः (अरण्यम्) वनम् (ते) तव (पृथिवी) हे भूमे (स्योनम्) सुखदम् (अस्तु) (बभ्रुम्) भरणशीलाम्। पोषयित्रीम् (कृष्णाम्) कर्षणयोग्याम् (रोहिणीम्) रुहेश्च। उ० २।५५। रुह बीजजन्मनि प्रादुर्भावे च−इनन्, ङीष्। उत्पादनशीलाम् (विश्वरूपाम्) अनेकरूपयुक्ताम् (ध्रुवाम्) दृढाम् (भूमिम्) आश्रयभूताम् (पृथिवीम्) विस्तृताम् (इन्द्रगुप्ताम्) इन्द्रैः परमैश्वर्यवद्भिः शूरैः पालिताम् (अजीतः) ज्या वयोहानौ−क्त, नत्वादेशाभावः। अजीनः। अजीर्णः। जराहीनः (अहतः) अमारितः (अक्षतः) क्षतरहितः। व्रणादिशून्यः (अध्यष्ठाम्) अधिकृतवानस्मि (पृथिवीम्) वसुधाम् (अहम्) मनुष्यः ॥

    इस भाष्य को एडिट करें
    Top