अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 46
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - षट्पदानुष्टुब्गर्भा पराशक्वरी
सूक्तम् - भूमि सूक्त
यस्ते॑ स॒र्पो वृश्चि॑कस्तृ॒ष्टदं॑श्मा हेम॒न्तज॑ब्धो भृम॒लो गुहा॒ शये॑। क्रिमि॒र्जिन्व॑त्पृथिवि॒ यद्य॒देज॑ति प्रा॒वृषि॒ तन्नः॒ सर्प॒न्मोप॑ सृप॒द्यच्छि॒वं तेन॑ नो मृड ॥
स्वर सहित पद पाठय: । ते॒ । स॒र्प: । वृश्चि॑क: । तृ॒ष्टऽदं॑श्मा । हे॒म॒न्तऽज॑ब्ध: । भृ॒म॒ल: । गुहा॑ । शये॑ । क्रिमि॑: । जिन्व॑त् । पृ॒थि॒वि॒ । यत्ऽय॑त् । एज॑ति । प्रा॒वृषि॑ । तत् । न॒: । सर्प॑त् । मा । उप॑ । सृ॒प॒त् । यत् । शि॒वम् । तेन॑ । न॒: । मृ॒ड॒ ॥१.४६॥
स्वर रहित मन्त्र
यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये। क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन्नः सर्पन्मोप सृपद्यच्छिवं तेन नो मृड ॥
स्वर रहित पद पाठय: । ते । सर्प: । वृश्चिक: । तृष्टऽदंश्मा । हेमन्तऽजब्ध: । भृमल: । गुहा । शये । क्रिमि: । जिन्वत् । पृथिवि । यत्ऽयत् । एजति । प्रावृषि । तत् । न: । सर्पत् । मा । उप । सृपत् । यत् । शिवम् । तेन । न: । मृड ॥१.४६॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 46
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४६−(यः) (ते) तव (सर्पः) भुजङ्गः (वृश्चिकः) अ० १०।४।९। कीटभेदः (तृष्टदंश्मा) दंश−मनिन्। यस्य दंशनेन तृषा भवति सः (हेमन्तजब्धः) जभ हिंसायाम्−क्त। हेमन्तेन हिंसितः (भृमलः) वृषादिभ्यश्चित्। उ० १।१०६। भ्रमु अनवस्थाने−कलप्रत्ययः संप्रसारणं च। अनवस्थितमनाः (गुहा) गर्ते (शये) तलोपः। शेते (क्रिमिः) क्षुद्रजन्तुः (जिन्वत्) तृप्यत् (पृथिवि) (यद्यत्) (एजति) चेष्टते (प्रावृषि) क्विब् वचिप्रच्छिश्रि०। उ० २।५७। प्र+वृषु सेचने−क्विप् दीर्घश्च। वर्षाकाले (तत्) सत्त्वम्। जन्तुः (नः) अस्मान् (सर्पत्) सर्पणं कुर्वत् (उप) समीपे (मा सृपत्) न सर्पतु (यत्) (शिवम्) मङ्गलम् (तेन) (नः) अस्मान् (मृड) सुखय ॥
इस भाष्य को एडिट करें