अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 58
यद्वदा॑मि॒ मधु॑म॒त्तद्व॑दामि॒ यदीक्षे॒ तद्व॑नन्ति मा। त्विषी॑मानस्मि जूति॒मानवा॒न्यान्ह॑न्मि॒ दोध॑तः ॥
स्वर सहित पद पाठयत् । वदा॑मि । मधु॑ऽमत् । तत् । व॒दा॒मि॒ । यत् । ईक्षे॑ । तत् । व॒न॒न्ति॒ । मा॒ । त्विषि॑ऽमान् । अ॒स्मि॒ । जू॒ति॒ऽमान् । अव॑ । अ॒न्यान् । ह॒न्मि॒ । दोध॑त: ॥१.५८॥
स्वर रहित मन्त्र
यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा। त्विषीमानस्मि जूतिमानवान्यान्हन्मि दोधतः ॥
स्वर रहित पद पाठयत् । वदामि । मधुऽमत् । तत् । वदामि । यत् । ईक्षे । तत् । वनन्ति । मा । त्विषिऽमान् । अस्मि । जूतिऽमान् । अव । अन्यान् । हन्मि । दोधत: ॥१.५८॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 58
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५८−(यत्) यत् किञ्चित् (वदामि) कथयामि (मधुमत्) श्रेष्ठज्ञानयुक्तम् (तत्) वचनम् (वदामि) (यत्) (ईक्षे) पश्यामि (तत्) (वनन्ति) संभजन्ति परमेश्वरनियमाः (मा) माम् (त्विषिमान्) दीप्तिमान् (अस्मि) (जूतिमान्) जु रंहसि−क्तिन्। वेगवान् (अन्यान्) शत्रून् (अव हन्मि) विनाशयामि (दोधतः) दोधतिः क्रुध्यतिकर्मा−निघ० २।१२, ततः शतृ। क्रुध्यतः ॥
इस भाष्य को एडिट करें