Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 25
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्र्यवसाना सप्तपदोष्णिगनुष्टुब्गर्भा शक्वरी सूक्तम् - भूमि सूक्त

    यस्ते॑ ग॒न्धः पुरु॑षेषु स्त्री॒षु पुं॒सु भगो॒ रुचिः॑। यो अश्वे॑षु वी॒रेषु॒ यो मृ॒गेषू॒त ह॒स्तिषु॑। क॒न्यायां॒ वर्चो॒ यद्भू॑मे॒ तेना॒स्माँ अपि॒ सं सृ॑ज॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥

    स्वर सहित पद पाठ

    य: । ते॒ । ग॒न्ध: । पुरु॑षेषु । स्त्री॒षु । पु॒म्ऽसु । भग॑: । रुचि॑: । य: । अश्वे॑षु । वी॒रेषु॑ । य: । मृ॒गेषु॑ । उ॒त । ह॒स्तिषु॑ । क॒न्या᳡याम् । वर्च॑: । यत् । भू॒मे॒ । तेन॑ । अ॒स्मान् । अपि । सम् । सृ॒ज॒ । मा । न॒: । द्वि॒क्ष॒त॒ । क: । च॒न ॥२.२५॥


    स्वर रहित मन्त्र

    यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः। यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु। कन्यायां वर्चो यद्भूमे तेनास्माँ अपि सं सृज मा नो द्विक्षत कश्चन ॥

    स्वर रहित पद पाठ

    य: । ते । गन्ध: । पुरुषेषु । स्त्रीषु । पुम्ऽसु । भग: । रुचि: । य: । अश्वेषु । वीरेषु । य: । मृगेषु । उत । हस्तिषु । कन्यायाम् । वर्च: । यत् । भूमे । तेन । अस्मान् । अपि । सम् । सृज । मा । न: । द्विक्षत । क: । चन ॥२.२५॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 25

    टिप्पणीः - २५−(यः) (ते) (गन्धः) (पुरुषेषु) पुरः कुषन्। उ० ४।७४। पुर अग्रगतौ−कुषन्। अग्रगामिषु (स्त्रीषु) (पुंसु) पातेर्डुमसुन्। उ० ४।१७८। पा रक्षणे डुमसुन्। रक्षकेषु मनुष्येषु (भगः) सेवनीयमैश्वर्यम् (रुचिः) कान्तिः (यः) (अश्वेषु) तुरङ्गेषु (वीरेषु) वि+ईर गतौ−अच्। वेगवत्सु (यः) (मृगेषु) हरिणेषु (हस्तिषु) गजेषु (कन्यायाम्) अघ्न्यादयश्च। उ० ४।११२। कन प्रीतौ द्युतौ गतौ−यक्, टाप् च। कन्या कमनीया भवति क्वेयं नेतव्येति वा कमनेनानीयत इति वा कनतेर्वा स्यात्कान्तिकर्मणः−निरु० ४।१५। मेषादितः षष्ठे राशौ। ज्योतिश्चक्रे (वर्चः) तेजः (यत्) (भूमे) (तेन) वर्चसा (अस्मान्) (अपि) (संसृज) संजनय। संयोजय। अन्यत् पूर्ववत्−म० २४ ॥

    इस भाष्य को एडिट करें
    Top