अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 4
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - भूमि सूक्त
यस्या॒श्चत॑स्रः प्र॒दिशः॑ पृथि॒व्या यस्या॒मन्नं कृ॒ष्टयः॑ संबभू॒वुः। या बिभ॑र्ति बहु॒धा प्रा॒णदेज॒त्सा नो॒ भूमि॒र्गोष्वप्यन्ने॑ दधातु ॥
स्वर सहित पद पाठयस्या॑: । चत॑स्र: । प्र॒ऽदिश॑: । पृ॒थि॒व्या: । यस्या॑म् । अन्न॑म् । कृ॒ष्टय॑: । स॒म्ऽब॒भू॒वु: । या । बिभ॑र्ति । ब॒हु॒ऽधा । प्रा॒णत् । एज॑त् । सा । न॒: । भूमि॑: । गोषु॑ । अपि॑ । अन्ने॑ । द॒धा॒तु॒ ॥१.४॥
स्वर रहित मन्त्र
यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः। या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥
स्वर रहित पद पाठयस्या: । चतस्र: । प्रऽदिश: । पृथिव्या: । यस्याम् । अन्नम् । कृष्टय: । सम्ऽबभूवु: । या । बिभर्ति । बहुऽधा । प्राणत् । एजत् । सा । न: । भूमि: । गोषु । अपि । अन्ने । दधातु ॥१.४॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यस्याः) (चतस्रः) (प्रदिशः) महादिशाः (पृथिव्याः) भूमेः (या) (बिभर्ति) पोषयति (बहुधा) अनेकप्रकारेण (प्राणत्) श्वासं कुर्वत् (एजत्) चेष्टायमानं जगत् (सा) (नः) अस्मान् (भूमिः) (गोषु) धेनुषु (अपि) (अन्ने) (दधातु) धरतु। अन्यत् पूर्ववत्−म० ३ ॥
इस भाष्य को एडिट करें