अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 56
ये ग्रामा॒ यदर॑ण्यं॒ याः स॒भा अधि॒ भूम्या॑म्। ये सं॑ग्रा॒माः समि॑तय॒स्तेषु॒ चारु॑ वदेम ते ॥
स्वर सहित पद पाठये । ग्रामा॑: । यत् । अर॑ण्यम् । या: । स॒भा: । अधि॑ । भूम्या॑म् । ये । स॒म्ऽग्रा॒मा: । सम्ऽइ॑तय: । तेषु॑ । चारु॑ । व॒दे॒म॒ । ते॒ ॥१.५६॥
स्वर रहित मन्त्र
ये ग्रामा यदरण्यं याः सभा अधि भूम्याम्। ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥
स्वर रहित पद पाठये । ग्रामा: । यत् । अरण्यम् । या: । सभा: । अधि । भूम्याम् । ये । सम्ऽग्रामा: । सम्ऽइतय: । तेषु । चारु । वदेम । ते ॥१.५६॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 56
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५६−(ये) (ग्रामाः) वासस्थानानि (यत्) (अरण्यम्) वनम् (याः) (सभाः) समाजाः (अधि) उपरि (भूम्याम्) (ये) (संग्रामाः) रणक्षेत्राणि (समितयः) सम्मेलनानि (तेषु) (चारु) सुन्दरं यशः (वदेम) कथयेम (ते) तव ॥
इस भाष्य को एडिट करें