अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 39
यस्यां॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यो॒ गा उदा॑नृ॒चुः। स॒प्त स॒त्रेण॑ वे॒धसो॑ य॒ज्ञेन॒ तप॑सा स॒ह ॥
स्वर सहित पद पाठयस्या॑म् । पूर्वे॑ । भू॒त॒ऽकृत॑: । ऋष॑य: । गा: । उत् । आ॒नृ॒चु: । स॒प्त । स॒त्त्रेण॑ । वे॒धस॑: । य॒ज्ञेन॑ । तप॑सा । स॒ह ॥१.३९॥
स्वर रहित मन्त्र
यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः। सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥
स्वर रहित पद पाठयस्याम् । पूर्वे । भूतऽकृत: । ऋषय: । गा: । उत् । आनृचु: । सप्त । सत्त्रेण । वेधस: । यज्ञेन । तपसा । सह ॥१.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 39
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३९−(यस्याम्) भूम्याम् (पूर्वे) पूर्व निवासे निमन्त्रणे च−अच्। निवासे शरीरे (भूतकृतः) भूतं यथार्थं कुर्वन्ति ये ते (ऋषयः) अ० ४।११।९। विषयप्रापकाः पञ्चज्ञानेन्द्रियाणि मनो बुद्धिश्च (गाः) वेदवाणीः (उत्) उत्तमतया (आनृचुः) अर्च पूजायाम्−लिट्। अपस्पृधेथामानृचुरानृहु०। पा० ६।१।३६। धातोर्लिटि उसि सम्प्रसारणमकारलोपश्च। यद्वृत्तान्नित्यम्। पा० ८।१।६६। इति निघातप्रतिषेधः। आनर्चुः। पूजितवन्तः (सप्त) सप्तसंख्याकाः (सत्त्रेण) सत्+त्रैङ् पालने−क। सतां सत्पुरुषाणां त्रायकेण (वेधसः) मेधाविनः ज्ञानवन्तः (यज्ञेन) देवपूजासंगतिकरणदानव्यवहारेण (तपसा) ब्रह्मचर्यादितपश्चरणेन (सह) ॥
इस भाष्य को एडिट करें