Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 50
    सूक्त - अथर्वा देवता - भूमिः छन्दः - अनुष्टुप् सूक्तम् - भूमि सूक्त

    ये ग॑न्ध॒र्वा अ॑प्स॒रसो॒ ये चा॒रायाः॑ किमी॒दिनः॑। पि॑शा॒चान्त्सर्वा॒ रक्षां॑सि॒ तान॒स्मद्भू॑मे यावय ॥

    स्वर सहित पद पाठ

    ये । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । ये । च॒ । अ॒राया॑: । कि॒मी॒दिन॑: । पि॒शा॒चान् । सर्वा॑ । रक्षां॑सि । तान् । अ॒स्मत् । भू॒मे॒ । य॒व॒य॒ ॥१.५०॥


    स्वर रहित मन्त्र

    ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः। पिशाचान्त्सर्वा रक्षांसि तानस्मद्भूमे यावय ॥

    स्वर रहित पद पाठ

    ये । गन्धर्वा: । अप्सरस: । ये । च । अराया: । किमीदिन: । पिशाचान् । सर्वा । रक्षांसि । तान् । अस्मत् । भूमे । यवय ॥१.५०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 50

    टिप्पणीः - ५०−(ये) (गन्धर्वाः) अ० ८।६।१९। गन्ध अर्दने−अच्+अर्व हिंसायाम्−अच्, शकन्ध्वादित्वात् पररूपम्। दुःखदायिपीडकाः (अप्सरसः) म० २३। सर्तेरप्पूर्वादसिः। उ० ४।२३७। अप्+सृ गतौ−असि उपसर्गान्त्यलोपः। अपसरणशीलान्। विरुद्धगामिनः (ये) (च) (अरायाः) अ० ११।६।१६। अदातारः (किमीदिनः) अ० १।७।१। पिशुनाः (पिशाचान्) अ० १।१६।३। मांसभक्षकान्। पीडाप्रदान् (सर्वा) सर्वाणि (रक्षांसि) राक्षसान् (तान्) (अस्मत्) (भूमे) (यावय) वियोजय ॥

    इस भाष्य को एडिट करें
    Top