Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 3
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रिष्टुप् सूक्तम् - भूमि सूक्त

    यस्यां॑ समु॒द्र उ॒त सिन्धु॒रापो॒ यस्या॒मन्नं॑ कृ॒ष्टयः॑ संबभू॒वुः। यस्या॑मि॒दं जिन्व॑ति प्रा॒णदेज॒त्सा नो॒ भूमिः॑ पूर्व॒पेये॑ दधातु ॥

    स्वर सहित पद पाठ

    यस्या॑म् । स॒मु॒द्र: । उ॒त । सिन्धु॑: । आप॑: । यस्या॑म् । अन्न॑म् । कृ॒ष्टय॑: । स॒म्ऽब॒भू॒वु: । यस्या॑म् । इ॒दम् । जिन्व॑ति । प्रा॒णत् । एज॑त् । सा । न॒: । भूमि॑: । पू॒र्व॒ऽपेये॑ । द॒धा॒तु॒ ॥१.३॥


    स्वर रहित मन्त्र

    यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः। यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥

    स्वर रहित पद पाठ

    यस्याम् । समुद्र: । उत । सिन्धु: । आप: । यस्याम् । अन्नम् । कृष्टय: । सम्ऽबभूवु: । यस्याम् । इदम् । जिन्वति । प्राणत् । एजत् । सा । न: । भूमि: । पूर्वऽपेये । दधातु ॥१.३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 3

    टिप्पणीः - ३−(यस्याम्) भूम्याम् (समुद्रः) जलौघः (उत) अपि च (सिन्धुः) नदी (आपः) जलधाराः (अन्नम्) भोज्यम् (कृष्टयः) सस्यभूभवः (संबभूवुः) उत्पन्ना बभूवुः (यस्याम्) (इदम्) दृश्यमानम् (जिन्वति) गच्छति−निघ० २।१४। (प्राणत्) श्वासं कुर्वत् (एजत्) चेष्टायमानं जगत् (सा) (नः) अस्मान् (भूमिः) पृथिवी (पूर्वपेये) अचो यत्। पा० ३।१।९७। पा० रक्षणे−यत्। ईद्यति। पा० ६।४।६५। आत ईत्त्वम्। पूर्वैः श्रेष्ठै रक्षितुं योग्ये पदे (दधातु) स्थापयतु ॥

    इस भाष्य को एडिट करें
    Top