Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 60
    सूक्त - अथर्वा देवता - भूमिः छन्दः - त्रिष्टुप् सूक्तम् - भूमि सूक्त

    याम॒न्वैच्छ॑द्ध॒विषा॑ वि॒श्वक॑र्मा॒न्तर॑र्ण॒वे रज॑सि॒ प्रवि॑ष्टाम्। भु॑जि॒ष्यं पात्रं॒ निहि॑तं॒ गुहा॒ यदा॒विर्भोगे॑ अभवन्मातृ॒मद्भ्यः॑ ॥

    स्वर सहित पद पाठ

    याम् । अ॒नु॒ऽऐच्छ॑त् । ह॒विषा॑ । वि॒श्वऽक॑र्मा । अ॒न्त: । अ॒र्ण॒वे । रज॑सि । प्रऽवि॑ष्टाम् । भु॒मि॒ष्य᳡म् । पात्र॑म् । निऽहि॑तम् । गुहा॑ । यत् । आ॒वि: । भोगे॑ । अ॒भ॒व॒त् । मा॒तृ॒मत्ऽभ्य॑: ॥१.६०॥


    स्वर रहित मन्त्र

    यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम्। भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन्मातृमद्भ्यः ॥

    स्वर रहित पद पाठ

    याम् । अनुऽऐच्छत् । हविषा । विश्वऽकर्मा । अन्त: । अर्णवे । रजसि । प्रऽविष्टाम् । भुमिष्यम् । पात्रम् । निऽहितम् । गुहा । यत् । आवि: । भोगे । अभवत् । मातृमत्ऽभ्य: ॥१.६०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 60

    टिप्पणीः - ६०−(याम्) पृथिवीम् (अन्वैच्छत्) अन्वेषणेन प्राप्तवान् (हविषा) दातव्याग्राह्यगुणेन सह वर्तमानाम् (विश्वकर्मा) सर्वकर्मसु कुशलः पुरुषः (अन्तः) मध्ये (अर्णवे) जलवति (रजसि) अन्तरिक्षे (प्रविष्टाम्) (भुजिष्यम्) भुवः कित्। उ० २।१२२। भुज पालनाभ्यव्यवहारयोः−इसिन् कित्। तस्मै हितम्। पा० ५।१।५। इति यत्। भुजिषे भोजनाय हितम् (पात्रम्) रक्षासाधनम्। अमत्रम् (निहितम्) स्थापितम् (गुहा) गर्ते (यत्) (आविः) प्रकटम् (भोगे) आहारे। पालने (अभवत्) (मातृमद्भ्यः) जननीयुक्तेभ्यः प्राणिभ्यः ॥

    इस भाष्य को एडिट करें
    Top