अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 15
त्वज्जा॒तास्त्वयि॑ चरन्ति॒ मर्त्या॒स्त्वं बि॑भर्षि द्वि॒पद॒स्त्वं चतु॑ष्पदः। तवे॒मे पृ॑थिवि॒ पञ्च॑ मान॒वा येभ्यो॒ ज्योति॑र॒मृतं॒ मर्त्ये॑भ्य उ॒द्यन्त्सूर्यो॑ र॒श्मिभि॑रात॒नोति॑ ॥
स्वर सहित पद पाठत्वत् । जा॒ता: । त्वयि॑ । च॒र॒न्ति॒ । मर्त्या॑: । त्वम् । बि॒भ॒र्षि॒: । द्वि॒ऽपद॑: । त्वम् । चतु॑:ऽपद: । तव॑ । इ॒मे । पृ॒थि॒वि॒ । पञ्च॑ । मा॒न॒वा: । येभ्य॑: । ज्योति॑: । अ॒मृत॑म् । मर्त्ये॑भ्य: । उ॒त्ऽयन् । सूर्य॑: । र॒श्मिऽभि॑: । आ॒ऽत॒नोति॑ ॥१.१५॥
स्वर रहित मन्त्र
त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः। तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥
स्वर रहित पद पाठत्वत् । जाता: । त्वयि । चरन्ति । मर्त्या: । त्वम् । बिभर्षि: । द्विऽपद: । त्वम् । चतु:ऽपद: । तव । इमे । पृथिवि । पञ्च । मानवा: । येभ्य: । ज्योति: । अमृतम् । मर्त्येभ्य: । उत्ऽयन् । सूर्य: । रश्मिऽभि: । आऽतनोति ॥१.१५॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(त्वत्) तव सकाशात् (जाताः) उत्पन्नाः (त्वयि) (चरन्ति) गच्छन्ति (मर्त्याः) मनुष्याः (त्वम्) (बिभर्षि) धरसि (द्विपदः) पादद्वयोपेतान् (त्वम्) (चतुष्पदः) पादचतुष्टयोपेतान् (तव) (इमे) (पृथिवी) (पञ्च मानवाः) अ० ३।२१।५। पञ्चभूतसम्बन्धिनो मनुष्याः (येभ्यः) (ज्योतिः) तेजः (अमृतम्) अनष्टम् (मर्त्येभ्यः) मनुष्येभ्यः (उद्यन्) उद्गच्छन् (सूर्यः) (रश्मिभिः) किरणैः (आतनोति) समन्ताद् विस्तारयति ॥
इस भाष्य को एडिट करें