अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 27
यस्यां॑ वृ॒क्षा वा॑नस्प॒त्या ध्रु॒वास्तिष्ठ॑न्ति वि॒श्वहा॑। पृ॑थि॒वीं वि॒श्वधा॑यसं धृ॒ताम॒च्छाव॑दामसि ॥
स्वर सहित पद पाठयस्या॑म् । वृ॒क्षा: । वा॒न॒स्प॒त्या: । ध्रु॒वा: । तिष्ठ॑न्ति । वि॒श्वहा॑ । पृ॒थि॒वीम् । वि॒श्वऽधा॑यसम् । धृ॒ताम् । अ॒च्छ॒ऽआव॑दामसि ॥१.२७॥
स्वर रहित मन्त्र
यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा। पृथिवीं विश्वधायसं धृतामच्छावदामसि ॥
स्वर रहित पद पाठयस्याम् । वृक्षा: । वानस्पत्या: । ध्रुवा: । तिष्ठन्ति । विश्वहा । पृथिवीम् । विश्वऽधायसम् । धृताम् । अच्छऽआवदामसि ॥१.२७॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 27
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(यस्याम्) पृथिव्याम् (वृक्षाः) वृक्ष वरणे−अच्। स्वीकरणीयास्तरवः (वानस्पत्याः) अ० ३।६।६। वनस्पति-ण्य। वनस्पतिभ्योऽश्वत्थादिभ्य उत्पन्नाः (ध्रुवाः) दृढाः सन्तः (तिष्ठन्ति) (विश्वहा) अनेकधा (पृथिवीम्) (विश्वधायसम्) अ० ३।२२।२। सर्वधारयित्रीम् (धृताम्) वीरपुरुषैर्धारिताम् (अच्छावदामसि) अ० ६।५९।३। अच्छ सुष्ठु स्वागतेन आवदामः आह्वयामः ॥
इस भाष्य को एडिट करें