Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 30
    सूक्त - अथर्वा देवता - भूमिः छन्दः - विराड्गायत्री सूक्तम् - भूमि सूक्त

    शु॒द्धा न॒ आप॑स्त॒न्वे क्षरन्तु॒ यो नः॒ सेदु॒रप्रि॑ये॒ तं नि द॑ध्मः। प॒वित्रे॑ण पृथिवि॒ मोत्पु॑नामि ॥

    स्वर सहित पद पाठ

    शु॒ध्दा: । न॒: । आप॑: । त॒न्वे᳡ । क्ष॒र॒न्तु॒ । य: । न॒: । सेदु॑: । अप्रि॑ये । तम् । नि । द॒ध्म॒: । प॒वित्रे॑ण । पृ॒थि॒वि॒ । मा॒ । उत् । पु॒ना॒मि॒ ॥१.३०॥


    स्वर रहित मन्त्र

    शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः। पवित्रेण पृथिवि मोत्पुनामि ॥

    स्वर रहित पद पाठ

    शुध्दा: । न: । आप: । तन्वे । क्षरन्तु । य: । न: । सेदु: । अप्रिये । तम् । नि । दध्म: । पवित्रेण । पृथिवि । मा । उत् । पुनामि ॥१.३०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 30

    टिप्पणीः - ३०−(शुद्धाः) निर्मलाः (नः) अस्माकम् (आपः) जलानि (तन्वे) शरीराय (क्षरन्तु) वहन्तु (यः) (नः) अस्माकम् (सेदुः) कुर्भ्रश्च। उ० १।२२। षद्लृ विशरणगत्यवसादनेषु−कु, अकारस्य एकारः पृषोदरादित्वात्। अवसादनस्य नाशनस्य व्यवहारः (अप्रिये) शत्रौ (तम्) सेदुम् (नि दध्मः) नितरां धारयामः (पवित्रेण) शुद्धकर्मणा (पृथिवी) (मा) माम् (उत्) उत्कर्षेण (पुनामि) शोधयामि ॥

    इस भाष्य को एडिट करें
    Top